Page loading... Please wait.
4|3|108 - कलापिनोऽण्
॥ तस्मै पाणिनये नमः ॥
4|3|108
SK 1488
कलापिनोऽण्  
सूत्रच्छेदः
कलापिनः (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। वैशम्पायनान्तेवासित्वाण् णिनेरपवादः। कलापिना प्रोक्तम् अधीयते कालापाः। इनण्यनपत्ये 6|4|164 इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि. लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानम्। इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तम् इत्येव सिद्धम्? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवम् आदि सिद्धम्।
`कालापाः`इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च। `अथ` इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात्? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। `एवमादि` इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः-- इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; `वृद्धाच्छः` 4|2|113 इति छेनाण औत्सर्गिकस्य बाधितत्वात्॥
यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य---इत्येतेभ्यः ठ्पुराणप्रोक्तेषुऽ इति णिनेरपवादोऽण्भवति ॥
सिद्धान्तकौमुदी
कलापिना प्रोक्तमधीयते कालापाः ॥ ।नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः (वार्तिकम्) ॥
कलापिनोऽण् - कलापिनोऽण् ।तेन प्रोक्त॑मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः ।॒इनण्यनपत्ये॑ इति प्रकृतिभावमाशङ्क्याह — नान्तस्येति ।
कलापिनोऽण् - कलापिनोऽण् । वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः ।इनण्यनपत्ये॑इति प्रकृतिभावे प्राप्ते आह — ।नान्तस्य टिलोपे सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् । नान्तस्य टिलोप इति । माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम् । मुद पिप्पलाद शाकल — -एभ्यःपुरामप्रोक्तेषु॑इति णिनेरपवादोऽण् । छगलिनो ढिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.