॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|9
SK 1210
4|2|9
वामदेवाड्ड्यड्ड्यौ  
SK 1210
सूत्रच्छेद:
वामदेवात् - पञ्चम्येकवचनम् , ड्यड्ड्यौ - प्रथमाद्विवचनम्
अनुवृत्ति:
दृष्टम्  [4|2|8] - प्रथमैकवचनम् , साम  [4|2|8] - प्रथमैकवचनम् , तेन  [4|2|1] - तृतीयैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तेन दृष्टं साम" (इति) वामदेवात् ड्यत्-ड्यौ
सूत्रार्थ:
"दृष्टं साम" अस्मिन् अर्थे तृतीयासमर्थात् वामदेव-शब्दात् "ड्यत्" तथा "ड्य" प्रत्ययौ भवतः
दृष्टं साम 4|2|7 अस्मिन् अर्थे "वामदेव" शब्दात् ड्यत् तथा ड्य एतौ प्रत्ययौ भवतः ।

वामदेवेन दृष्टं साम
→ वामदेव + ड्यत् / ड्य
→ वामदेव् + य [टेः 6|4|143 इति टिलोपः]
→ वामदेव्य

ज्ञातव्यम्
1. ड्यत्-प्रत्ययान्तरूपम् ड्य-प्रत्ययान्तरूपम् च समानमेव भवति । द्वयोः रूपयोः केवलं स्वरभेदः अस्ति । तित्स्वरितम् 6|4|185 इत्यनेन ड्यत्-प्रत्ययान्त-"वामदेव्य" शब्दस्य यकारोत्तरः अकारः स्वरितः जायते, परन्तु ड्य-प्रत्ययनिर्मितस्य "वामदेव्य" शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

2. एतयोः प्रत्यययोः डकारस्य इत्संज्ञायाः किम् प्रयोजनम्? डकारः नास्ति चेदपि अङ्गस्य भसंज्ञां कृत्वा यस्येति च 6|4|148 इत्यनेन अन्तिमवर्णलोपं कृत्वा अपि एते एव रूपे भवतः । अतः अत्र डकारः किमर्थम् प्रयुक्तः इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः ब्रूते -
सिद्धे "यस्येति"लोपेन किमर्थं य-यतौ डितौ।
ग्रहणं माऽतदर्थे भूत् वामदेव्यस्य नञ्स्वरे ॥
इत्युक्ते, केवलं य/यत् इति उच्यते चेत् ययतोः च अतदर्थे 6|2|156 अस्य सूत्रस्य अपि "वामदेव्य" शब्दस्य विषये प्रसक्तिः स्यात् । एवं भवति चेत् "अवामदेव्य" अस्य शब्दस्य अन्तिमस्वरः (यकारोत्तरः अकारः) उदात्तः भवेत् । तत् तथा मा भूत्, एतत् स्पष्टीकर्तुम् अत्र डकारः प्रयुक्तः अस्ति । (अवामदेव्य इत्यत्र अकारः उदात्तः भवति, अतः शेषनिघातेन यकारोत्तरः अकारः अनुदात्तः अस्ति ।) ।
One-line meaning in English
The word वामदेव gets the प्रत्ययs ड्यत् and ड्य in the meaning of "तेन दृष्टं साम".
काशिकावृत्तिः
वामदेवशब्दात् तृतीयासमर्थात् दृष्टं साम इत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणो ऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किम् अर्थम्? ययतोश्च अतदर्थे 6|2|156 इति नञ उत्तरस्य अन्तोदात्तत्वे विधीयमाने ऽन्योर् ग्रहणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया च अनयोर् निवृत्तिः क्रियते। अवामदेव्यम्। सिद्धे यस्य इति लोपेन किमर्थं ययतौ डितौ। ग्रहणं मा ऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे।
`{उदाहरणद्वयं मूले नास्ति, एवमेव वामदेव्य् इति दृश्यते।} वामदेव्यम्, वागमदेव्यम्` इति। एकस्तित्स्वरेणान्तस्वरितः, द्वितीयः प्रत्ययस्वरेणान्तोदात्तः।`ङित्करणं किमर्थम्` इति। `यस्येति च` 6|4|148 इत्येवं लोपस्य सिद्धत्वाड्डित्करणस्यानर्थक्यं मन्यते-- डड्डआवित्यादि। न वामदेव्यमवामदेव्यमिति-- -- अत्र `नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः` 6|2|154 इत्यतो नञ इत्यनुवत्र्तमाने `ययतोश्चातदर्थे` 6|2|155 इत्युत्तरपदस्यान्तोदात्तत्वे विधीयमानेऽनयोग्र्रहणं मा भूदित्येवमर्थ डित्करणम्। असति च तत्रानयोग्र्रहणे नञ एव स्वरो भवति, स पुनरुदात्तः। `निपाता आद्युदात्ता भवन्ति` (फिट्।सू।4।80) इति वचनात्। अथ क्रियमाणे डित्करणे कस्मादनयोग्र्रहणं न भवति? इत्याह्म-- `निरनुबन्धग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति परिभाषया डडडयोरपि निवृत्तिः क्रियते। यद्ग्रहणेऽपि `एकानुबन्धकरणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति परिभाषया यतः। अनयोश्च परिभाषयोरस्तित्व एतदेव डित्करणं लिङ्गम्।सङ्ग्रहश्लोके `अतदर्थे` इत्यनेन `ययतोश्चातदर्थे` 6|2|155 इत्येतत् सूत्रं लभ्यते। एतस्मिन् सूत्रे इत्यर्थः। `नञ्स्वरे`इति। नञो यः स्वरः नञ्स्वरः। शेषो गतार्थः॥
डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ ठ्क्रियमाणेऽपि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह---अननुबन्धकेति । ठननुबन्धकस्य ग्रहणे न सानुबन्धकस्यऽ इति यग्रहणे ड।ल्ड।ल्तोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्ग्रहणे ड।ल्तो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति । संग्रहश्लोके अतदर्थे इत्यनेन ठ्ययतोश्चातदर्थेऽ इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उतरपदान्तोदातत्वं तस्मिन्विधीयमाने इत्यर्थः ॥
सिद्धान्तकौमुदी
वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥
वामदेवाड्ड्यड्ड्यौ - वामदेवाड्डड्डऔ । वामदेव्यमिति । डित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननुयस्येति चे॑ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ "ययतोश्चाऽतदर्थे" इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणंनिरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण॑मिति परिभाषयातदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य॑ इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाचअवामदेव्य॑मित्यत्राऽयं स्वरो न भवति । एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति — सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । "यस्य" इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे=॒ययतोश्चातदर्थे॑ इति सूत्रे अनयोडर्ड्डयोग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः ।
वामदेवाड्ड्यड्ड्यौ - वामदेवात् । ग्रहणं माऽदर्थैत्यादि । अतदर्थे — ॒ययतोश्चातदर्थे इति विहिते॑नञ्स्वरे — -नञाश्रितस्वरे डड्डतोग्र्रहणं मा भूदित्यर्थः ।ययतोश्चे॑ति सूत्रेण विधीयमानं नञः परस्य ययदन्तस्योत्तरपदस्यान्तोदात्तत्वमवामदेव्यशब्दे मा भूत् किंतु — — अव्ययपूरक्लपदस्वर एव यखा स्यादित्येतदर्थं ढित्करणमिति फलितोऽर्थः । न च कृतेऽपि डित्त्वेययतो॑रित्यस्य प्रवृत्तिः कृतो नेति शङ्क्यं,निरनुबन्धकग्रहणे न सानुबन्धकस्य॑,तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयोः सत्त्वात् । इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते । तत्राऽ‌ऽद्यायाः प्रयोजनं — -॒पूरणगुणे॑ति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम् । द्वितीयस्यास्तु अङ्ग्रहण् चङोऽग्रहणम् ।आयतेरः॑अहि परे॑इति शेषः । अआत् । चङि परे तु न , अशिइआयत् ।
लघुसिद्धान्तकौमुदी
वामदेवेन दृष्टं साम वामदेव्यम्॥
महाभाष्यम्
वामदेवाडड्यड्ड्यौ (1432) (ड्यड्ड्ययोरधिकरणम्) (डित्त्वफलबोधकभाष्यम्) किमर्थो डकारः? डितीति लोपो यथा स्यात्। नैतदस्ति प्रयोजनम्। यस्येति लोपेनाप्येतत्सिद्धम्। एवं तर्हि सिद्धे सति यद्ययतौ डितौ करोति तज् ज्ञापयत्याचार्यः ‐ भवत एते परिभाषे ‐ अननुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्, तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणमिति।। (ज्ञापनफलबोधकभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? अवामदेव्यमित्येतत्सिद्धं भवति। सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ। ग्रहणं माऽतदर्थे भू- द्वामदेव्यस्य नञ्ञ्स्वरे।।