Page loading... Please wait.
4|2|83 - शर्कराया वा
॥ तस्मै पाणिनये नमः ॥
4|2|83
SK 1302
शर्कराया वा   🔊
सूत्रच्छेदः
शर्करायाः (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसमर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति, शर्कराशब्दादौत्सर्गिको भवति, तस्य अयं विकल्पितो लुपिति। शर्करा। शार्करम्। गणपाठाच् च श्रवणम् उत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा, शार्करम्, शर्करिकम्, शार्करकम् , शार्करिकम्, शर्करीयम् इति।
`पाठसामथ्र्यात्ित्यादि। यदि नित्यो लुप् स्यात्, गणयोरस्य पाठोऽनर्थकः स्यात्। तस्मात् पाठसमाथ्र्यादेव पक्षे श्रवणं भविष्यतीत्यत आह। `एवं तर्हि` इत्यादिना वाघणस्य ज्ञापकं दर्शयति। `शर्करा` इति। औत्सर्गिकस्य लुप्। `शार्करम्` इति। त्स्यैव पक्षे श्रवणम्। `शर्करकम्` इति। कुमुदादित्वाट्ठच्। `शार्करकम्` इति। वराहादित्वात् कक्। शार्करिकम्, शर्करीयम्` इति। उत्तरसूत्रेण ठक्छौ॥
कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात् । शकरेति । अणे लुप् । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच् । शार्करकमिति । वराहादित्वात्कक्, ठ्केऽणःऽ इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उतरसूत्रेण ठक्छौ ॥
सिद्धान्तकौमुदी
अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥
शर्कराया वा - शर्कराया वा ।लु॑बित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह — अस्मादिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.