Page loading... Please wait.
4|2|8 - कलेर्ढक्
॥ तस्मै पाणिनये नमः ॥
4|2|8
SK 1209
कलेर्ढक्  
सूत्रच्छेदः
कलेः (पञ्चम्येकवचनम्) , ढक् (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|2|1 (तृतीयैकवचनम्) , साम  4|2|8 (प्रथमैकवचनम्) , दृष्टम्  4|2|8 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन दृष्टं साम" (इति) कलेः ढक्
सूत्रार्थः
"दृष्टं साम" अस्मिन् अर्थे तृतीयासमर्थात् कलि-शब्दात् ढक्-प्रत्ययः भवति ।
कलिना दृष्टं साम
= कलि + ढक्
→ कालि + ढक् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कालि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ढकारस्य एय-आदेशः]
→ काल् + एय [यस्येति च 6|4|148 इति इकारलोपः]
→ कालेय

अयं प्रत्ययः अण्-प्रत्ययस्य अपवादरूपेण आगच्छति ।
One-line meaning in English
The word कलि gets the तद्धितप्रत्यय "ढक्" in the meaning of "दृष्टं साम".
काशिकावृत्तिः
कलिशब्दात् तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति। अणो ऽपवादः। कलिना दृष्टं साम कालेयम्। सर्वत्र अग्निकलिभ्यां ढग् वक्तव्यः। अग्निना दृष्टम् आग्नेयम्। एवम् अग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वम् इति सर्वत्र ढगेव भवति। आग्नेयम्। तथा कालेयम् अपि प्रतिपत्तव्यम्। दृष्टे सामनि अण् वा डिद् भवति इति वक्तव्यम्। उशनसा दृष्टं साम औशनसम्, औशनम्। जाते च अर्थे यो ऽन्येन बाधितः पुनरण् विधीयते स वा डिद् भवति इति वक्तव्यम्। प्राग्दीव्यतो ऽण् प्राप्तः कालठञा बाधितः संधिवेलाद्यृतुनक्षत्रेभ्यः इति पुनर् विधियते स वा डिद् भवति इति वक्तव्यम्। शतभिषजि जातः। शातभिषजः, शातभिषः। तीयादीकक् स्वार्थे वा वक्तव्यः। द्वैतीयीकम्। तार्तीयीकम्। द्वितीयकम्। तृतीयकम्। न विद्यायः। द्वितीया, तृतीया विद्या। गोत्रादङ्कवदिष्यते। दृष्टं साम इत्येतस्मिन्नर्थे। औपगवेन दृष्टं साम औपगवकम्। कापटवकम्। गोत्रचरणाद् वुञ् भवति। दृष्टे सामनि जाते च द्विरण् डिद्वा विधीयते। तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते।
Text Unavailable. Please use feedback link below to provide the text if you have.
सर्वत्रेति । न केवलमग्नेः ठ्सास्य देवताऽ इत्यस्मिन्नेवार्थे ढक्, नापि केवलं दृष्ट्ंअ सामेत्यत्रैवार्थे कलेर्ढग्; अपि तु सर्वेष्वे व प्राग्दीव्यतीयेष्वित्यर्थः । संग्रहश्लोके जति च द्विरण् डिद्वा विधीयते इति पाठः । जातेऽर्थे योऽण् विधीयते स वा डिद्भवतीत्यर्थः । न विद्याया इति । विद्यावाचिन ईकग् न भवतीत्यर्थः । गोत्रादङ्कवदिति । अङ्के यो दृष्टः प्रत्ययः स सर्वोऽतिदिश्यते, न त्वङ्क एवाहत्य विहितः, तेन ठ्सङ्घाङ्कलक्षणेषुऽ इत्यस्याणः ठ्गोत्रचरणाद् वुञ्ऽ इत्यस्य च वुञोऽतिदेशः ॥
सिद्धान्तकौमुदी
कलिना दृष्टं कालेयं साम ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.