॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|58
SK 1267
4|2|58
घञः साऽस्यां क्रियेति ञः  
SK 1267
सूत्रच्छेद:
घञः - पञ्चम्येकवचनम् , सा - प्रथमैकवचनम् , अस्याम् - सप्तम्येकवचनम् , क्रिया - प्रथमैकवचनम् , इति - अव्ययम् , ञः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सा इति समर्थविभक्तिः। अस्याम् इति प्रत्ययार्थः स्त्रीलिङ्गः। क्रिया इति प्रकृत्यर्थविशेषणम्। घञः इति प्रकृतिनिर्देशः। इति करणो विवक्षार्थः। घञन्तात् कियावाचिनः प्रथमासमर्थादस्याम् इति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रययो भवति। घञः इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वम् अपि गृह्यते। श्येनपातो ऽस्यां वर्तते श्यैनंपाता। तैलंपाता घञः इति किम्? श्येनपतनम् अस्यां वर्तते। क्रिया इति किम्? प्राकारो ऽस्यां वर्तते। अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात् पुनरुपादियते, यावता द्वयम् अपि प्रकृतम् एव? क्रीडायाम् इत्यनेन तत्सम्बद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि सम्भाव्येत। सामान्येन च इदं विधानम्। दण्डपातो ऽस्यां तिथौ वर्तते दाण्डपाता तिथिः। मौसलपाता तिथिः।
`क्रियेति प्रकृतिविशेषणम्` इति। यत्र तद्घञन्तं क्रियावाचि चेद्भवतीति। तेन भावे यो घञ् तदन्तात् प्रत्ययो भवतीत्युक्तं भवति। ननु च भावे यो घञ् तेनैव तदन्तं क्रियावाचि? यस्माद्धात्वर्थस्य सिद्धता नाम यो धर्मस्तत्र घञादिभिर्भवितव्यमित्युक्तं प्राक्, धर्मधर्मिणोर्भेदस्याविवितत्वात् क्रियाधर्मोऽपि क्रियाशब्दनोक्त इत्यदोषः। `इतिकरणो विवक्षार्थः`इति। ननु च पर्वसूत्रादेवेतिकरणोऽनुवरितिष्यते,तत्क पुनरिह तस्योपादानम्? इतिकरणस्येह प्रकरणेऽनधिकारतां दर्शयितुं पुनरुपादानम्। तेन `तद्धीते तद्वेद` 4|2|58 इत्यत्रास्येतिकरणस्याननुवृत्तौ विवक्षानियमाभावादध्येतृवेदितृमात्रे प्रत्ययः सिद्धो भवतीत्येके। वैचित्र्यार्थमितिकरणोपादानमित्यपरे। `श्यैनम्पाता` इति। `शल हुल पत्लृ गतौ` (धातुपाठः-843, 844,845) भावे घञ्, श्येनस्य पात इति षष्ठीसमासः। ञे विहिते `श्येनतिलस्य पाते ञे` 6|3|70 इत मुम्। `प्राकारः` इति। करोतेः प्रपूर्वात् `अकत्र्तरि च कारके संज्ञायाम्` 3|3|19 इति कर्मणि घञ्। `उपसर्गस्य घञ्यमनुष्ये बहुलम्` 6|3|121 इति प्रशब्दस्य दीर्घः। भवतीदं घञन्तम्; न तु क्रियावाचि; प्राकारस् द्रव्यत्वात्।`अथ`इत्यादि चोद्यम्। `क्रीडायामित्यनेन तत्सम्बद्धम्` इत्यादि परिहारः। स्यादेतत्नुवत्र्ततां क्रीडा, तस्याञ्चेदं प्रत्यविधानमिष्यत इत्यत आह-- `सामान्येन च` इत्यादि॥
अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ् तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठयाः समासः, ततो ञः, ठ्श्येनतिलस्य पाते ञःऽ इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात---दणाडपात इति ॥
सिद्धान्तकौमुदी
घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥
घञः साऽस्यां क्रियेति ञः - घञः सास्याम् । अस्यामित्यनन्तरंमृगयाया॑मित्यादि स्त्रीलिङ्गं विशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनो ञः स्यादित्यर्थः । फलितमाह — घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते ।
घञः साऽस्यां क्रियेति ञः - घञः । कृद्ग्रहणादिति । तेनश्यैनंपाते॑त्यत्रञ्णिती॑त्यङ्गस्य विधीयमाना वृद्धिः सिद्धा । श्येनपातस्यापि घञन्तत्वादिति भावः । घञः किम् । श्येनपतनमस्यां वर्तते । क्रिया किम् । प्राकारोऽस्यां वर्तते ।तदस्या॑मिति प्रकृते पुनःसास्या॑मित्युक्तिःक्रीडायां॑मित्यस्य निवृत्तिर्यथा स्यादिति । अतएवाह — ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!