Page loading... Please wait.
4|2|53 - राजन्यादिभ्यो वुञ्
॥ तस्मै पाणिनये नमः ॥
4|2|53
SK 1262
राजन्यादिभ्यो वुञ्  
सूत्रच्छेदः
राजन्य-आदिभ्यः (पञ्चमीबहुवचनम्) , वुञ् (प्रथमैकवचनम्)
अनुवृत्तिः
तस्य  4|2|37 (षष्ठ्येकवचनम्) , देशे  4|2|53 (सप्तम्येकवचनम्) , विषयः  4|2|53 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
तस्य विषयः देशे (इति) राजन्यादिभ्यः वुञ्
सूत्रार्थः
"तस्य विषयः देशे" अस्मिन् अर्थे राजन्यादिगणस्य शब्देभ्यः वुञ्-प्रत्ययः विधीयते ।
विषयो देशे 4|2|52 अस्मिन् अर्थे राजन्यादिगणस्य शब्देभ्यः औत्सर्गिकम् अण्-प्रत्ययं बाधित्वा वुञ्-प्रत्ययः भवति ।

राजन्यादिगणः अयम् -
राजन्य, देवयान, मालव, विराट, त्रिगर्त, शालङ्कायन, जालन्धरायण, आत्मकामेय, अम्बरीषपुत्र, वसाति, बैल्ववन, शैलूष, उदुम्बर, बैल्वल, आर्जुनायन, संप्रिय, दाक्षि, ऊर्णनाभ। आकृतिगणोऽयम् ।

उदाहरणानि -
1. राजन्यानां विषयः देशः राजन्यकः ।
2. देवयानानां विषयः देशः दैवयानकः ।
3. मालवानां विषयः देशः मालवकः ।
4. विराटानां विषयः देशः वैराटकः।
5. त्रिगर्तानां विषयः देशः त्रैगर्तकः ।
6. शालङ्कायनानां विषयः देशः शालङ्कायनकः ।
7. जालन्धरायणानां विषयः देशः जालन्धरायणकः ।
8. आत्मकामेयानां विषयः देशः आत्मकामेयकः ।
9. अम्बरीषपुत्राणां विषयः देशः आम्बरीषपुत्रकः ।
10. वसातीनां विषयः देशः वासातकः ।
11. बैल्ववनानां विषयः देशः बैल्ववनकः ।
12. शैलूषानां विषयः देशः शैलूषकः ।
13. उदुम्बराणां विषयः देशः औदुम्बरकः ।
14. बैल्वलानां विषयः देशः बैल्वलकः ।
15. आर्जुनायनां विषयः देशः आर्जुनायनकः ।
16. संप्रियानां विषयः देशः सांप्रियकः ।
17. ऊर्णनाभानां विषयः देशः और्णनाभकः ।

अयम् आकृतिगणः अस्ति, अतः शिष्टप्रयोगं अनुसृत्य अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति ।

एतेषु सर्वेषु प्रक्रियायाम् "वु" इत्यस्य युवोरनाकौ 7|1|1 इति अक-आदेशः भवति, तथा प्रत्ययस्य ञित्वात् तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः अपि विधीयते ।
One-line meaning in English
The words of the राजन्यादिगण get the प्रत्यय "वुञ्" in the meaning of "विषयः देशे".
काशिकावृत्तिः
राजन्यादिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति विषयो देशे इत्येतस्मिन्नर्थे। अणो ऽपवादः। राजन्यानां विषयो देशः राजन्यकः। दैवयानकः। आकृतिगणश्च अयम्। मालवानां विषयो देशः मालवकः। वैराटकः। त्रैगर्तकः। राजन्य। देवयान। शालङ्कायन। जालन्धरायण। आत्मकामेय। अम्बरीषपुत्र। वसाति। बैल्ववन। शैलूष। उदुम्बर। बैल्वत। आर्जुनायन। संप्रिय। दाक्षि। ऊर्णनाभ।
`आकृतिगणश्चायम्` इति। अपरिसमाप्ततां राजन्यादेर्दर्शयति।आदिशब्दश्चायं प्रकारार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
राजन्यकः ॥
राजन्यादिभ्यो वुञ् - राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक इति । अत्र राजन्यानां विशेषो देश इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.