Page loading... Please wait.
4|2|48 - केशाश्वाभ्यां यञ्छावन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|2|48
SK 1257
केशाश्वाभ्यां यञ्छावन्यतरस्याम्  
सूत्रच्छेदः
केश-अश्वाभ्याम् (पञ्चमीद्विवचनम्) , यञ्-छौ (प्रथमाद्विवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
समूहः  4|2|37 (प्रथमैकवचनम्) , तस्य  4|2|37 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
तस्य समूहः (इति) केश-अश्वाभ्याम् यञ् छौ अन्यतरस्याम्
सूत्रार्थः
"तस्य समूहः" अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।
तस्य समूहः 4|2|37 अस्मिन् अर्थे -
1) "केश" शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे अचित्तहस्तिधेनोष्ठक् 4|2|47 इत्यनेन ठक्-प्रत्ययः अपि विधीयते ।
2) "अश्व"शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते ।

यथा -
1) केशानां समूहः कैश्यम् कैशिकम् वा ।
यञ्-प्रत्यये परे प्रक्रिया -
केश + यञ्
→ कैश + य [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कैश् + य [यस्येति च 6|4|148 इति अकारलोपः]
→ कैश्य

(पक्षे) ठक्-प्रत्यये परे प्रक्रिया -
केश+ ठक्
→ केश + इक [ठस्येकः 8|3|50 इति इक्-आदेशः]
→ कैश + इक [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कैश् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ कैशिक

2) अश्वानां समूहः अश्वीयम् आश्वम् वा ।
छ-प्रत्यये परे प्रक्रिया -
अश्व + छ
→ अश्व + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ईय्-आदेशः]
→ अश्व् + ईय [यस्येति च 6|4|148 इति अकारलोपः]
→ अश्वीय

(पक्षे) अण्-प्रत्यये परे प्रक्रिया-
अश्व + अण्
→ अाश्व + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ आश्व् + अ [यस्येति च 6|4|148 इति अकारलोपः]
→ आश्व
One-line meaning in English
The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of "तस्य समूहः". The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of "तस्य समूहः"
काशिकावृत्तिः
केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ् छ इत्येतौ प्रत्ययौ भवतो ऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्, कैशिकम्। अश्वानाम् समूहः अश्वीयम्, आश्वम्।
केशशब्दादचित्तलक्षमे ठकि प्राप्ते वचनमिदम्। अआशब्दादप्यणि सूत्रमिदमारभ्यते। अन्यतरस्यांग्रहमाट्ठगणावपि भवतः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥
केशाश्वाभ्यां यञ्छावन्यतरस्याम् - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयम् आआमिति । क्रमेण छाऽणौ ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.