Page loading... Please wait.
4|2|135 - अपदातौ साल्वात्‌
॥ तस्मै पाणिनये नमः ॥
4|2|135
SK 1359
अपदातौ साल्वात्‌   🔊
सूत्रच्छेदः
अ-पदातौ (सप्तम्येकवचनम्) , साल्वात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
साल्वशब्दः कच्छादिसु पठ्यते, ततः पूर्वेण एव मनुस्यतत्स्थयोः वुञि सिद्धे नियमार्थं वचनम्। अपदातावेव मनुस्ये मनष्यस्थे च साल्वशब्दाद् वुञ् प्रत्ययो भवति। साल्वको मनुस्यः। सल्वकम् अस्य हसितम्, जल्पितम्। अपदातौ इति किम्? साल्वः पदातिर्व्रजति।
`साल्वः` इति। कच्छादिपाठादण्॥
पादाभ्यामततीति ठ्पादस्य पदाज्यातिगोपहतेषुऽ इति पदादेशः, न पदातिरपदातिः । अपदातिःउअश्वरोहादिः । अपदातावेव मनुष्ये तत्स्थे चेति । द्वन्द्वनिर्दिष्टत्वेन तत्स्थे चेत्युक्म्, न तु तत्स्थस्य पदातेः सम्भवोऽस्ति । अपदातौ साल्वादेवेत्येष तु विपरीतनियमो न भवति; ठ्गोयवाग्वोश्चऽ इत्यारम्भात् ॥
सिद्धान्तकौमुदी
साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥
अपदातौ साल्वात् - अपदातौ साल्वात् । नियमार्थमिति ।साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.