Page loading... Please wait.
4|2|128 - नगरात्‌ कुत्सनप्रावीण्ययोः
॥ तस्मै पाणिनये नमः ॥
4|2|128
SK 1352
नगरात्‌ कुत्सनप्रावीण्ययोः   🔊
सूत्रच्छेदः
नगरात् (पञ्चम्येकवचनम्) , कुत्सन-प्रावीण्ययोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नगरशब्दात् वुञ् प्रत्ययो भवति शैसिकः कुत्सने प्रावीण्ये च गम्यमाने। प्रत्ययार्थविशेषणं च एतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति। कुत्सनं निन्दनम्। प्रावीण्यं नैपुण्यम्। केन अयं मुषितः पन्था गात्रे पक्षमालिधूसरः। इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण। चोरा हि नागरका भवन्ति। केन इदं लिखितं चित्रं मनोनेत्रविकाशि यत्। इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण। प्रवीणा हि नागरका भवन्ति। कुत्सनप्रावीण्ययोः इति किम्? नागरा ब्राह्मणाः। कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात् संज्ञानागरं पठ्यते, तस्मिन् नागरेयकम् इति प्रत्युदाहार्यम्।
`नागरा ब्राआहृणाः` इति। अण्। ननु च `नगर,माहिष्मती` 4|2|94 इति नगरशब्दः कत्त्र्यादिषु पठते, ततो ढकञा भवितव्यम्, तत्कथं नागरा इति प्रत्युदाह्यियत इत्याह-- `कत्त्र्यादिषु` इति। द्विविधो नगरशब्दः-- जातिवचनः, संज्ञावचनश्च। तयोः कत्त्र्यादिषु माहिष्मतीशब्देन साहचर्यात् संज्ञाशब्दः पठते। तत्र जातिशब्दान्नागरा इति प्रत्युदाह्मतम्। संज्ञाशब्दे तु नागरेयक इति प्रत्युदाहत्र्तव्यम्॥
केनेदं मुषितमिति प्रश्नः, इह नगरे मनुष्येणेत्युतरम् । सम्भाव्यत एतदित्यादि प्रष्टुअर्वचनम् । संज्ञानगरं पठ।ल्त इति । माहिष्मतीशब्दसाहचर्यात् संज्ञानगरं संज्ञाभूतो नगरशब्द इत्यर्थः ॥
सिद्धान्तकौमुदी
नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥
नगरात् कुत्सनप्रावीण्ययोः - नगरात्कुत्सन । नागरा ब्राआहृणा इति । कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् ।प्राचां ग्रामनगराणामि॑ति सूत्रभाष्ये "नागरा" इत्युदाहरणात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.