Page loading... Please wait.
4|2|121 - धन्वयोपधाद्वुञ्
॥ तस्मै पाणिनये नमः ॥
4|2|121
SK 1345
धन्वयोपधाद्वुञ्   🔊
सूत्रच्छेदः
धन्व-य-उपधात् (पञ्चम्येकवचनम्) , वुञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृद्धातिति वर्तते, देशे इति च। धन्ववाचिनो यकारौपधाच् च देशाभिधायिनो वृद्धात् प्रातिपदिकात् वुञ् प्रत्ययो भवति शैषिकः। धन्वशब्दो मरुदेशवचनः। पारेधन्वकः। ऐरावतकः। योपधात् सांकाश्यकः। कम्पिल्यकः।
धन्वनोऽर्थस्य ग्रहणम्, न स्वरूपस्य; वृद्धाधिकारात्। न हि धन्वशब्दो वृद्धः। पारेधन्वनि जातः पारेधन्वकः, `नस्तद्धिते` 6|4|144 इति टिलोपः। ऐरावते जात ऐरावततकः॥
धन्ववाचिन इति । धन्वविशेषवाचिन ऐरावतादेरित्यर्थः । स्वरूपस्य पर्यायाणां च ग्रहणं न भवति, वृद्धाधिकारात् । पारेधन्वक इति । ठ्पारेमध्ये षष्ठ।ल वाऽ इत्यव्ययीभावः, ठचश्चऽ इति टच् समासन्तः, वुञि यस्येति लोपः । यदि तु धन्वशब्दो नपुंसकलिङ्गः, ततः ठ्नपुंसकादन्यतरस्याम्ऽ इति टजभावपक्षे वुञिऽ नस्तद्धितेऽ इति टिलोपः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्च्छणादिसूत्रेण ण्यान्तौ ॥
सिद्धान्तकौमुदी
धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण्--(कौमुदी-1292) आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥
धन्वयोपधाद्वुञ् - धन्वयोपधाद्वुञ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व-मरुप्रदेशः । "समानो मरुधन्वानौ" इत्यमरः ।आष्टकं नाम धन्वे॑ति बाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः ।
धन्वयोपधाद्वुञ् - धन्वयोपधा । धन्वेति न स्वरूपपर्याययोग्र्रहणं, वद्धत्वाऽसंभवादित्याशयेनाह — -धन्वविशेषेति । ऐरावतं धन्वेति । यद्यपिसमानौ मरुधन्वानौ॑इत्यमरेण पुंस्त्वमुक्तं, तथापिआष्टकं नाम धन्वे॑ति भाष्ये ह्यस्वापाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.