॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|2|12
SK 1213
4|2|12
द्वैपवैयाघ्रादञ्  
SK 1213
सूत्रच्छेद:
द्वैपवैयाघ्रात् - पञ्चम्येकवचनम् , अञ् - प्रथमैकवचनम्
अनुवृत्ति:
परिवृतः  [4|2|10] - प्रथमैकवचनम् , रथः  [4|2|10] - प्रथमैकवचनम् , तेन  [4|2|1] - तृतीयैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तेन परिवृतो रथः" (इति) द्वैप-वैयाघ्रात् अञ्
सूत्रार्थ:
द्वैपशब्दात् वैयाघ्रशब्दात् च "परिवृतः" अस्मिन् अर्थे रथं निर्देशयितुम् "अञ्" प्रत्ययः भवति ।
परिवृतो रथः 4|2|10 अस्मिन् अर्थे "द्वैप" तथा "वैयाघ्र" शब्दाभ्याम् अञ्-प्रत्ययः विधीयते । यथा - द्वैपेन परिवृतो रथः = द्वैपः रथः । वैयाघ्रेन परिवृतो रथः वैयाघ्रः रथः ।

ज्ञातव्यम् - द्वैप तथा वैयाघ्र - द्वयोः अर्थः "व्याघ्रस्य चर्म" इति भवति ।
One-line meaning in English
The words द्वैप and वैयाघ्र get the प्रत्यय अञ् in the meaing of "परिवृतो रथः"
काशिकावृत्तिः
द्वीपिव्याघ्रयोर् विकरभूते चर्मणो द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ् प्रत्ययो भवति। अणो ऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथः द्वैपः। वैयाघ्रः।
`द्वीपिव्याघ्रयोर्विकार` इत्यादि। द्वीपिनो विकारश्चर्म, व्याघ्रस्य विकारश्चर्म-- इत्यर्थविवक्षायां `प्राणिरजताद्विभ्योऽञ्` 4|3|152 इत्यञ्प्रत्ययान्तत्वात् द्वैपवैयाघ्रशब्दयोः, ताभ्यामिह द्वीपिव्याघ्रविकारत्वाच्चर्मणि अभिधीयेते। चर्मणैव द्वीपिव्याघ्रविकारेण रथस्य परिवृतत्वं सम्भवति, न विकारमात्रेणेति चर्मणी इह द्वैपवैयाघ्रशब्दाभ्यां विवक्षिते इति गम्यते॥
द्वीपिव्याघ्रयोरिति । ठ्विरूपाणामपि समानार्थानाम्ऽ एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति ठ्चर्मणीऽ इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्ऽ इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ॥
सिद्धान्तकौमुदी
द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥
द्वैपवैयाघ्रादञ् - द्वैपवैयाघ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी — व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे "प्राणिरजतादिभ्यः" इत्यञि द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञिन य्वाभ्या॑मित्यैच् । तेन परिवृतो वैयाघ्र इति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!