Page loading... Please wait.
4|2|105 - ऐषमोह्यःश्वसोऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|2|105
SK 1326
ऐषमोह्यःश्वसोऽन्यतरस्याम्   🔊
सूत्रच्छेदः
ऐषमस्-ह्यस्-श्वसः (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऐषमस् ह्रस् श्वसित्येतेभ्यो ऽन्यतरस्यां त्यप् पत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्रस्त्यम्, ह्रस्तनम्। श्वस्त्यम्, श्वस्तनम्। श्वसस्तुट् च 4|3|15 इति ठञपि तृतीयो भवति। शौवस्तिकम्।
ऐषमःप्रभृ-तीनि कालवाचीनि प्रातिपदिकान्यव्ययानि। `सायञ्चिरम्` 4|3|23 इत्यादिना परत्वाट्टउटउलोः प्राप्तयोरिदं वचनम्। `शोवस्तिकम्` इति। `द्वारादीनाञ्च` 7|3|4 इत्यैजागमः॥
ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः, ठ्श्वसस्तुट् चऽ इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥
सिद्धान्तकौमुदी
एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥
ऐषमोह्यःश्वसोऽन्यतरस्याम् - ऐषमोह्रः । एभ्य इति । ऐषमस्, ह्रस्, आस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति ।सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्टउठ्युलौ तुट् चे॑त्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः ।परुत्परो र्यैषमो ।ञब्दे पूर्वे पूर्वतरे यती॑त्यमरः । ऐषमस्तनमिति । ठ्युठ्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्रस्त्यं, ह्रस्तनमिति । ह्रसित्यव्ययं गतेऽह्नि । तत्र भवमित्यर्थः । आस्त्यं-आस्तनमिति । आस् इत्यव्ययमनागतेऽह्नि । तत्र भवमित्यर्थः ।ह्रो गतेऽनागतेऽह्नि आः॑ इत्यमरः । पक्षे इति ।आसस्तुट् चे॑ति ठञि तस्य इकादेशे तुडागमेद्वारादीनां चे॑त्यैजागमेशौवस्तिक॑मित्यपि वक्ष्यमाणं रूपमित्यर्थः ।
ऐषमोह्यःश्वसोऽन्यतरस्याम् - वक्ष्यमाणाविति ।सायंचिर॑मित्यादिने॑ति शेषः । वक्ष्यत इति ।आसस्तुट् चे॑त्यत्र ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.