॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|77
SK 531
4|1|77
यूनस्तिः  
SK 531
सूत्रच्छेद:
यूनः - पञ्चम्येकवचनम् , तिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14] , तद्धिता:  [4|1|76]
सम्पूर्णसूत्रम्
अनुपसर्जनात् यूनः स्त्रियाम् तिः तद्धितः प्रत्ययः परश्च
सूत्रार्थ:
उपसर्जनभिन्न-युवन्-शब्दात् स्त्रीत्वं द्योतयितुम् "ति" इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते ।
युवन् इति नकारान्तशब्दः । स्त्रीत्वं द्योतयितुम् अस्मात् शब्दात् ऋन्नेभ्यो ङीप् 4|1|5 इत्यनेन ङीप्-प्रत्यये प्राप्ते तस्य अपवादरूपेण वर्तमानसूत्रेण "ति" इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते । यथा -
युवन् + ति
→ युव + ति [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारस्य लोपः]
→ युवति

अत्र केचन बिन्दवः ज्ञातव्याः -
1. अनेन सूत्रेण निर्दिष्टः "ति" प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । तद्धिताधिकारस्य अत्र किम् प्रयोजनम्? कृत्तद्धितसमासाश्च 1|2|46 इत्यनेन "युवति" अयं तद्धितान्तशब्दः प्रातिपदिकसंज्ञां प्राप्नोति । प्रातिपदिकसंज्ञायां प्राप्तायाम् अस्मात् शब्दात् सुप्-प्रत्यययोजनं कर्तुं शक्यते । एतदेव तद्धिताधिकारस्य अत्र प्रयोजनम् । परन्तु अस्मिन् विषये दीक्षितः कौमुद्यां वदति - "लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः" । इत्युक्ते, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् अनया परिभाषया "युवन्" शब्दस्य ग्रहणेन "युवति" शब्दः अपि प्रातिपदिकसंज्ञां प्राप्नोति ; तदर्थम् अत्र तद्धिताधिकारस्य काचिदपि आवश्यकता नास्ति । अतः अत्र तद्धिताधिकारः वस्तुतः न आवश्यकः - इत्याशयः ।

2. अनेन सूत्रेण सिद्धः "युवति" शब्दः "ह्रस्व-इकारान्तः" अस्ति, अस्य रूपाणि च "मति" शब्दवत् भवन्ति । संस्कृते "युवती" इति कश्चन दीर्घ-ईकारान्तशब्दः अपि अस्मिन्नेव अर्थे प्रयुज्यते, परन्तु सः शब्दः युवन्-शब्दात् न सिद्ध्यति । "यू (मिश्रणामिश्रणयो)" अस्मात् धातोः शतृ-प्रत्ययं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं कृत्वा "युवती" शब्दः सिद्ध्यति ।

3. अनेन सूत्रेण निर्दिष्टः "ति"-प्रत्ययः युवन्-शब्दात् तदा एव भवति यदा युवन्-शब्दस्य उपसर्जनसंज्ञा नास्ति । यथा, "बहवः युवानः यस्मिन् सः" इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते "बहुयुवन्" इति प्रातिपदिके प्राप्ते अस्मिन् प्रातिपदिके युवन्-शब्दस्य उपसर्जनसंज्ञा भवति, अतः अत्र स्त्रीत्वं द्योतयितुम् वर्तमानसूत्रेण ति-प्रत्ययः न विधीयते, अपितु डाबुभाभ्यामन्यतरस्याम्‌ 4|1|13 इत्यनेन डाप्-प्रत्ययं कृत्वा "बहुयुवा" इति प्रातिपदिकं सिद्ध्यति ।
One-line meaning in English
To indicate the feminine property, the, word युवन् which is not an gets उपसर्जनसंज्ञक the तद्धितप्रत्यय "ति".
काशिकावृत्तिः
युवन्शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति। स च तद्धितसंज्ञो भवति। ङीपो ऽपवादः। युवतिः।
`ङीपोऽपवादः` इति। नकारान्तत्वात् `ऋन्नेभ्यो ङीप्` 4|1|5 इति प्राप्तस्य। अथेदन्तात् `इतो मनुष्यजातेः` 4|1|65 इति ङीष् कस्मान्न भवति? अमनुष्यजातित्वात्। न हि युवतिशब्दो मनुष्यजातिवचनः, किं तर्हि? वयोवचनः। तथा हि यौवनावस्थायामेव स वत्र्तते, न बाल्यवृद्धत्वावस्थायाम्। न चैवंविधा जातिशब्दाः,ते हि सर्वावस्थासु व्युक्तिषु जातिनिबन्धना वत्र्तन्ते, गोशब्दादिवत्॥
युवतिरिति । त्यन्तात् ठितो मनुष्यजातेःऽ इति ङीष्न भवति; तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वात् , यौवनस्य वाऽजातित्वात् ॥
सिद्धान्तकौमुदी
युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥। इति स्त्रीप्रत्ययप्रकरणम्‌ ।
यूनस्तिः - यूनस्तिः । "तद्धिता" इत्यनुवृत्तमेकवचनेन विपरणम्यते । तदाह — युवन्शब्दादित्यादि ।स्त्रिया॑मिति शेषः ।समर्थना॑मित्यतः प्राक्तदधिकारस्योक्तत्वादिति भावः । नान्तलक्षणङीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिव्र्यर्था । नचकृत्तद्धिते॑ति प्रातिपदिकत्वार्थं तदनुवृत्तिरिति वाच्यम्, प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात्सुबुत्पत्तिसिद्धेरित्यत आह — लिङ्गविशिष्टस्येति । युवतिरिति । स्वादिष्विति पदत्वात् "न लोप" इति नकारलोपः । अनुपसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उपसर्जनत्वात्तिप्रत्ययाऽभावे नान्तलक्षणङीपः "अनो बहुव्रीहेः" इति निषेधेडाबुभाभ्या॑मिति डापि च रूपम् । ननु "युवतीभिः परिवृत" इत्यादौ कथं युवतीशब्द ईकारान्त इत्यत आह — युवतीति त्विति । "युमिश्रणे" इत्यस्माल्लटः शतरि, शपो लुकि, उवङि उगित्त्वान्ङीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः । पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरौणादिके बाहुलकात्कतिप्रत्यये कित्त्वाद्गुणाऽभावे उवङि उगित्त्वान्ङीपि युवतीशब्दः सिध्यतीत्याहुः । इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणम् । — — — — — — — — — — — - अथ स्वादिसन्धिः ।
यूनस्तिः - यूनस्तिः ।ऋन्नेभ्यः॑इति ङीपोऽपवादः । युवतिरिति ।स्वादिषु — -॑इति पदत्वान्नलोपः । कथं तर्हियुवतीकरकोमलनिर्मथित॑मिति प्रयोगः । अत्र केचित् — ॒सर्वतोऽक्तिन्नर्था॑दिति बह्वादिगणसूत्राद्वैकल्पिकोऽत्र ङीष् । न च तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वान्ङीष् नभविष्यतीति शङ्क्यम्, — -॒उक्तेऽपि हि भवन्त्येते॑इति भष्यात् । न चैवमपि युवतीनां समूहोयोवत॑मिति न सिध्येत् । किं तुतस्य समूहः॑इत्यणिभस्याढे तद्धिते॑इति पुंवद्भावेनयौवन॑मित्येव स्यादिति वांच्यम्, बाहुलकाद्यौतेरौणादिके कतिप्रत्ययेसति युवतिशब्दस्तमादय तत्सिद्धेरिति । इमं क्लेशं परिहारन्नाह — -शत्रन्तादिति । यौति मिश्री करोति पत्येति विग्रहेलटः शतृशानचौ॑इति शतरिउगितश्च॑इति ङीप् । एवं हियौवत॑मिति प्रयोगोऽपि सुलभः । त्यन्तादणि तु पुंवद्भावाद्यौवनमित्येव ।भिक्षादिपाठसामथ्र्यात् पुंव॑दिति वृत्तिकारोक्तिरयुक्तेतिभिक्षादिभ्योऽण्इत्यत्रैवोपपादयिष्यामः । *इति तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणम्*अथ स्वादयः ।षुञ् । सुन्व इति ।लोपश्चास्ये॑त्युकारस्य लोपः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!