॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|7
SK 456
4|1|7
वनो र च  
SK 456
सूत्रच्छेद:
वनः - षष्ठ्येकवचनम् , र (लुप्तप्रथमान्तनिर्देशः) च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वन्नन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। ऋन्नेभ्यो ङीप् 4|1|5 इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्। वनो न हशः। प्राप्तौ ङीव्रौ उभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी।
`वनः` इति क्वनिब्वनिपोः प्रत्ययोग्र्रहणम्। अथ `बन षण सम्भवक्तौ` (धातुपाठः-463,464) `वनु याचने` (धातुपाठः-1470) इत्याभ्यां `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति विचि कृते यद्रूपं वन्निति निष्पद्यते तत्कस्मान्न गृह्रते यदि ताभ्यां विज् दृश्येत स तु न दृश्यते; अनभिधानात्। `शर्वरी` इति। `शृ? हंसायाम्` (धातुपाठः-1488), `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति वनिप्,गुणः रपरत्वम्। `परलोकदृआरी` इति। दृशस्तेनैव सूत्रेण 3|2|75 क्वनिप्।`वनोन हशः` इति। क्वचिदिति शेषः। हशः परो यो वनिप् हशन्ताद्धातोर्विहितस्तदन्तात् प्रातिपदिकात् क्वचिन्ङीब्रोफश्चान्तादेशो न भवति। `सहयुध्वा` इति। `युध सम्प्रहारे` (धातुपाठः-1173), `दृशेः क्वनिप्` 3|2|94 , `राजनि युधिकृञः` 3|2|95 , `सहे च` 3|2|96 इति क्वनिप्, `नोपधायाः` 6|4|7 , `सर्वनामस्थाने` 6|4|8 इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य` 8|2|7 । क्वचित्तु प्रतिषेधो न भवत्येव-- शर्वरीति, अतर् रेफाद्धशः परो वनिप्; अवावरीति, अत्रापि हशन्ताद्धातोर्वनिब्विहितः, तथापि प्रतिषेधो न भवति। `ओणृ अपनयने` (धातुपाठः-454), `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति वनिप्, `विड्वनोरनुनासिकस्यात्` 6|4|41 इत्यात्त्वम्, अवादेशः। न च वनो न हश इत्येव {वक्तव्यं कत्र्तव्यम्` इति मुद्रितः पाठः। } वक्तव्यम्; यस्मात् `पादोऽन्यतरस्याम्` 4|1|8 इत्यन्तरस्यांग्रहणमस्यापि योगस्य शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेन यत्र ङीब्रोफौ नेष्येते तत्र न भविष्यतः॥
ठ्वनःऽ इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न ठ्वन षण संभक्तौऽ, ठ्वनु याचेनऽ इति धात्वोर्विजन्तयोः, कुतः ? ठ्प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्ऽ इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति । ठ्शृ हिंसायाम्ऽ, ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति । ठ्दृशेः क्वनिप्ऽ । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन "सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि ठ्विड्वनोरनुनासिकस्यात्ऽ इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव---अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ---यज्वरीरिषः । प्रैइरिशवोस्तुट् च---प्रेर्त्वरी ॥
सिद्धान्तकौमुदी
वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । [(परिभाषा - ) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्] । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ॥ ।वनो न हश इति वक्तव्यम् (वार्तिकम्) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः (कौमुदी-2982) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥बहुव्रीहौ वा (वार्तिकम्) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥
वनो र च - वनोर च । वनः र च इति च्छेदः ।र॑इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः । चकारात्ङीप्समुच्चीयते ।वन॑इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् ।प्रातिपदिका॑दित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । अन्तादेश इति ।प्रकृते॑रिति शेषः । नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन॑ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः ।ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः ।तिड्डतिङ॑इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् ।यस्मात्प्रत्ययविधि॑रिति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं,यनविधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मित्यतः॒स्व॑मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित् ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तुस्त्रिया॑मित्यस्मिन्नधिकारे न प्रवर्तते,शूद्रा चामहत्पूर्वा जातिः॑इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति । "षुञ् अभिषवे" "सुजयोङ्र्वनिप्"ह्यस्वस्य पिति कृती॑ति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहेअत्यादयः॑इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम् । अतिधीवरीति ।डुधाञ्धारणपोषणयोः॑,अन्येभ्योऽपि दृश्यते॑इति भाषायामपि क्वनिप् ।घुमास्था॑इति ईत्त्वम् । धीवानमतिक्रान्ता इति विग्रहे "अत्यादयः" इति समासः । ङीब्राश्च, अतिधीवरीति रूपम् । भाष्ये तुध्यायतेः क्वनिपि संप्रसारणे "हलः॑इति दीर्घ" इति स्थितम् । शर्वरीति ।शृ हिंसायाम्,आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति भाषायामपि वनिप्,सार्वधातुकार्धधातुकयोः॑ इति गुणः,वनो र चे॑ति ङीब्राश्च । वन्नन्तस्योदाहरणमेतत् ।अतिशर्वरी॑ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते । "हश" इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽ‌ऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः । ङीबिति रश्चेति चानुवर्तते । तदाह — हशन्तादित्यादिना । विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह — ओणृ इत्यादिना । वनिबिति ।अन्येभ्योऽपि दृश्यते इत्यनेने॑ति शेषः । आवावेति । ओण् इत्यस्मद्वनिपिविड्वनोरनुनासिकस्या॑दिति णकारस्य आत्त्वे ओकारस्यावादेशे "अवावन्" शब्दः । स्त्रीत्वस्फोरणायब्राआहृणी॑ति विशेष्यम् । अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम् ।हशन्ताद्धातोः परो यो व॑न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति-राजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने "राजनि युधिकृञः" इति क्वनिप् । कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः । बहुव्रीहौ वा । इदं वार्तिकम् ।वनो र चे॑ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः ।अनो बहुव्रीहे॑रिति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति । ङीब्रात्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, "अल्लोपोऽनः" इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात् । बहुपर्वन्शब्दे चन संयोगाद्वनमन्ता॑दित्यचल्लोपनिषेधात् । पक्षे इति । ङीब्रात्वाऽभावपक्षेडाबुभाभ्या॑मिति डाब्वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन्-आ इति स्थिते "टेः" इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपेबहुधीवे॑ति रमावद्रूपम् । ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम् । ङीब्रात्वयोर्बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वनो र च (1281) (अतिव्याप्तिपरिहारभाष्यम्) इह कस्मान्न भवति ‐ निःशुनी, अतियूनीति? अर्थवद्ग्रहणे नानर्थकस्येति। एवमपि मघोनी ‐ अत्र प्राप्नोति। मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकम्।। (5130 सिद्धान्तपूरकवार्तिकम्।। 1 ।।) - वनो न हशः - (भाष्यम्) वनो र चेत्यत्र हशन्तान्न भवतीति वक्तव्यम्। इह मा भूत् ‐ सहयुध्वा ब्राह्मणीति।। यदि न हश इत्युच्यते ‐ शर्वरीति न सिध्यति। विहितविशेषणं हश्ग्रहणम् ‐ हशन्ताद्यो विहित इति। एवमपि प्रेर्त्वरीति न सिध्यति। कथं चात्र तुगागमः? छान्दसत्वात्। ङीब्रावपि तर्हि छान्दसत्वादेव भविष्यतः।। बहुलं छन्दसि ङीब्रौ वक्तव्यौ ‐ यज्वरीरिषः। यज्वनीरिषः।। (5131 पूर्वपक्षवार्तिकम्।। 2 ।।) - रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् - (भाष्यम्) रविधाने बहुव्रीहेरुपसंख्यानं कर्तव्यम् ‐ बहुधीवरी, बहुपीवरी।। किं पुनः कारणं न सिध्यति? प्रतिषिद्धत्वात्। अनो बहुव्रीहेः (4।1।12) इति प्रतिषेधः प्राप्नोति।। (5232 पूर्वपक्षायसमाधानवार्तिकम्।। 3 ।।) - अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वावचनम् - (भाष्यम्) अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वेति वक्तव्यम्।। (समाधानाक्षेपभाष्यम्) अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः। यथोपसंख्यानं चोदितं तथा नित्याभ्यां ङीब्राभ्यां भवितव्यम्। यथा परिहारः, तथा विभाषया भवितव्यम्।। (सिद्धान्तभाष्यम्) यथोपसंख्यानं चोदितमेवमपि विभाषया भवितव्यम्, न ह्यत्र ङीब् दुर्लभः। सिद्धोऽत्र ङीप् ‐ अन उपधालोपिनोन्यतरस्याम् (4।1।28) इति। ङीप्संनियोगेन र उच्यमानोऽन्येन सति न स्यादित्येवमर्थमुपसंख्यानं चोद्यते।। (सिद्धान्ताक्षेपभाष्यम्) किं पुनः कारणं ङीप्संनियोगेन र उच्यते? इह मा भूत् ‐ सुपर्वा, चारुपर्वेति। तत्तर्ह्युपसंख्यानं कर्तव्यम्? न कर्तव्यम्।। (सिद्धान्तभाष्यम्) वक्ष्यति ‐ डाबुभाभ्यामन्यतरस्यामित्यत्रान्यतरस्यां ग्रहणस्य प्रयोजनं डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपियथा स्यातामिति।।