॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|55
SK 511
4|1|55
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च  
SK 511
सूत्रच्छेद:
नासिकोदरौष्ठजङ्‍घादन्तकर्णशृङ्गात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्वाङ्गाच् च उपसर्जनातित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानलक्षणस् तु प्रतिषेधो भवत्येव। नासिकाऽअद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बम्बोष्ठी, बम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्षणशृङ्गी, तीक्ष्णशृङ्गा। पुच्छाच् च इति वक्तवय्म्। कल्याणपुच्छी, कल्याणपुच्छा। कबरमणिविषशरेभ्यो नित्यम्। कबरपुच्छी। मणिपुच्छी। विषयुच्छी। शरपुच्छी। उपमानात् पक्षाच् च पुच्छात् च। उलूकपक्षीसेना। उलूकपुच्छी शाला।
`बह्वज्लक्षणे` इत्यादि। नासिकोदरयोः। `न क्रोडादिबह्वचः` 4|1|56 इति बह्वज्लक्षणे प्रतिषेधे प्राप्ते वचनम्। शेषाणाम् `असंयोगोपधात्` 4|1|54 इति संयोगोपलक्षणे। `सहनञ्विद्यमानपूर्वलक्षणनस्तु प्रतिषेधो भवत्येव` इति। नासिकोदरयोस्तावदयं योगः `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते, नोत्तरान्` (व्या।प।9) इत्यनन्तरमेव बह्वज्लक्षणं प्रतिषेधं बाधते, न सहादिलक्षणम्। ओष्ठादिष्वपि `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते` (व्या।प।10) इति पूर्वमेव संयोगोपधलक्षणम्, तेनासौ भवत्येवम-- सहनासिका, अनासिका, विद्यमाननासिकेति। `बिम्बोष्ठी` इति। बिम्बमिवोष्ठौ यस्याः सा बिम्बोष्ठी-- `ओत्वष्ठयोः समासे वा पररूपं वक्तव्यम्` (वा।687) इत्यौपसंख्यानिकं पररूपत्वम्। ये तु बिम्बौष्टीत्यौकारं पठन्ति ते `वृद्धिरेचि` 6|1|85 इति वृदिंध कुर्वन्ति।`पुच्छाच्चेति वक्तव्यम्` इति। पुच्छान्ताच्च प्रातिपदिकान्ङीष् भवतीत्येदर्थरूपं व्याख्येमित्यर्थः। किमर्थम्? संयोगोपधादपि पुच्छान्ताद्यथा स्यात्। व्याख्यानं तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कत्र्तव्यम्। `कल्याणपुच्छी` इति। कल्याणं पुच्छमस्याः।`कबर` इत्यादि। कबरादिभ्यो यः पुच्छशब्दस्तदन्तान्ङीष् भवतीति। एषोऽपि तत एव चकाराद्वाग्रहणस्य वा व्यवस्थितविभाषात्वल्लभ्यते। कबरं पुच्छे यस्याः सा कबरपुच्छी। एवं `मणिपुच्छी, विषपुच्छी, शरपुच्छी` इति। `सप्तमीविशेषणे बहुव्रीहौ` 2|2|35 इति पुच्छस्य पूर्वनिपातो न भवति; `सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम्` (वा। 115) इति वचनात्। `उपमानात् पक्षात् पुच्छाच्च` इति। नित्यमिति सम्बध्यते। एतदपि पूर्वोक्तात् कारणद्वयाल्लभ्यते। `पुच्छाच्चेति वक्तव्यम्` (वा।364) इत्यनेनैव सिद्धे पुनरिह पुच्छग्रहणं प्रपञ्चार्थम्,नित्यार्थं वा। उलूकस्येव पुच्छं यस्याः सा `उलूकपुच्छी`॥
सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव---सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । ठोत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्ऽ इति पररूपम् । कबरपुच्छीति । कबरमुनानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ॥
सिद्धान्तकौमुदी
एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ॥ ।पुच्छाच्च (वार्तिकम्) ॥ सुपुच्छी । सुपुच्छा ॥कबरमणिविषशरेभ्यो नित्यम् (वार्तिकम्) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ ।उपमानात्पक्षाच्च पुच्छाच्च (वार्तिकम्) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च - नासिकोदरोष्ठ । अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति, "अन्यतो ङीष्" इत्यतो ङीषिति चानुवर्तते । तदाह — एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः । ननुस्वाङ्गाच्चे॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — आद्ययोरिति । नासिकोदरशब्दयोर्विषये "न क्रोडादिबह्वचः" इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्रसहनञ्विद्यमानपूर्वाच्चे॑ति निषेधोऽप्यनेन वाध्यतां, "सहनञ्" इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इति न्यायादित्यर्थः । ततश्चसहनञि॑ति निषेधोन क्रोडादि॑सूत्रे व्यवहितत्वात्नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह — ओष्ठादीनामिति । सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा, अनोष्ठा इत्यादौसहनञि॑ति निषेधोऽप्यनेन बाध्यतामित्यत आह — मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इत#इ न्यायादित्यर्थः । ननु "नासिकोदर" इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः,सहन॑ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह — सहनञ्लक्षणस्त्विति । अस्येति । "नासिकोदर" इति हीष्विकल्पविधेरित्यर्थः । तुङ्गनासिकी तुङ्गनासिकेति । "न क्रोडादिबह्वचः" इति बह्वज्लक्षणङीष्निषेधं बाधित्वा "नासिकोदर" इति विकल्पः । इत्यादीति । कुम्भोदरी-कुम्भोदरा । अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः । बिम्बोष्ठी-विम्बोष्ठा । सुजङ्घी-सुजङ्घा । शुभ्रदन्ती-शुब्रादन्ता.सुकर्णी-सुकर्णा । सुश्रह्गी-सुश्रृङ्दा । ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः । सहनासिकेति । सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापिसहनञ्विद्यमाने॑ति ङीष्निषेधो नतु "नासिकोदर" इति ङीष्विकल्प इत्यर्थः । वक्तव्यमिति ।वा ङी॑षिति इति शेषः संयोगापधत्वाद्ववचनम् । स्वङ्गीतचि । सु=शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति — एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः ।पुच्छाच्चेति । संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः ।कबरमणीति । कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः ।पुच्छाच्चे॑त्युक्ताविकल्पापवादः । कबरमित्यस्य व्याख्यानं त्रित्रमिति । इत्यादीति । मणिपुच्छी वृश्चकी । विषपुच्छी । शरपुच्छी पक्षिजातिविशेषः ।उपमानादिति । उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः । नित्यमित्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्ो यस्या इति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च॑ इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः । पूर्वपदे बहुव्रीहिः ।पुच्छाच्चे॑ति विकल्पस्यापवादः ।
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च - मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान्विधीन्बीधन्ते नोत्तरान् इति न्यायादित्यर्थः । उरः क्रोडेति । स्त्रीलिङ्गोऽयमिति हरदत्तादयः । तत्रोपसर्जमह्यस्वत्वे कृते अदन्तत्वान्ङीषः प्राप्तिः । अमरस्तुन ना क्रोडं भुजान्तरम्इत्याह । रत्नमतिस्तुपुंलिङ्गतामाह ।गणे चक्रोड॑इति प्रातिपदिकमात्रं पठते न तु टाबन्त॑मिति गणरत्न महोदधिकारः । एवं चाऽविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम् । माधवस्तु — तुदादिगणेक्रुड निमज्जने॑इति धातावाह — -॒क्रोडः — धञ् । क्रोडा अआनामुरः । टाबन्तोऽयं स्वभावतो विशेषविषयः । क्रोडादिषु टाबन्तमात्रस्य पाठात् । भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव ।कल्याणक्रोडी कल्याणक्रोडा मयूरी॑ति । केशैः सह वर्तत इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च (1308) (ङीष्विकल्पाधिकरणम्) (5198 विधिवार्तिकम्।। 1 ।।) - नासिकादीनां विभाषायां पुच्छाच्च - (भाष्यम्) नासिकादीनां विभाषायां पुच्छाच्चेति वक्तव्यम्। कल्याणपुच्छी, कल्याणपुच्छा। (5199 विधिवार्तिकम्।। 2 ।।) - कबरमणिविषशरेभ्यो नित्यम् - (भाष्यम्) कबरमणिविषशरेभ्यो नित्यमिति वक्तव्यम्। कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी।। (5200 विधिवार्तिकम्।। 3 ।।) - उपमानात्पक्षाच्च पुच्छाच्च - (भाष्यम्) उपमानात्पक्षात्, पुच्छाच्चेति वक्तव्यम्। उलूकपक्षी शाला, उलूकपुच्छी सेनेति। (5201 विधिनिषेधयोर्विप्रतिषेधबोधकवार्तिकम्।। 4 ।।) - नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो विप्रतिषेधेन - (भाष्यम्) नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन। नासिकादिभ्यो विभाषाया अवकाशः ‐ कल्याणनासिकी, कल्याणनासिका। सहनञ्ञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्यावकाशः ‐ समुखा, अमुखा, विद्यमानमुखेति। इहोभयं प्राप्नोति ‐ सनासिका, अनासिका, विद्यमाननासिकेति। सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन। नैष युक्तो विप्रतिषेधः। अयं विधिः। स प्रतिषेधः। विधिप्रतिषेधयोश्चायुक्तो विप्रतिषेधः। अयमपि विधिः ‐ न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते। स यथैव बह्वज्लक्षणं संयोगोपधलक्षणं च प्रतिषेधं बाधते, एवं हि सहनञ्ञ्विद्यमानलक्षणमपि बाधेत। का तर्हि गतिः?।। (विप्रतिषेधसमर्थकभाष्यम्) इह तावन्नासिकोदर इति ‐ बह्वज्लक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वक्षलणश्च। पुरस्तादपवादा अन्तरान् विधीन् बाधन्ते इत्येवमियं विभाषा बह्वज्लक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानलक्षणं न बाधिष्यते। ओष्ठजङ्घादन्तकर्णशृङ्गाच्चेति ‐ संयोगोपधलक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वलक्षणश्च। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमियं विभाषा संयोगोपधलक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानपूर्वलक्षणं न बाधिष्यते।।