॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|37
SK 494
4|1|37
वृषाकप्यग्निकुसितकुसीदानामुदात्तः  
SK 494
सूत्रच्छेद:
वृषाकप्यग्निकुसितकुसीदानाम् - षष्ठीबहुवचनम् , उदात्तः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वृषाकप्यादीनाम् उदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप् च प्रत्ययः। वृषाकपिशब्दो मद्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृषाकपायी। अग्नायी। कुसितायी। कुसिदायी। पुंयोगे इत्येव, वृषाकपिः स्त्री।
`वृषाकपिशब्दो मध्योदात्तः` इति। `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फिट्।2।42) इति वनचात्। अस्यायमर्थः-- लघावन्ते परतो द्वयोश्च लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवतीति। `बह्वष्` इति बह्वजित्यर्थः। पाणिनेर्यश्चकारेण प्रत्याहारः सोऽन्येषामाचार्याणां मतेन षकारेण। वृषाकपिशब्दे कपिशब्दसम्बन्धिनोर्लघ्वोः परतः पूर्व आकारो गुरुतर उदात्तो भवति, शेषमनुदात्तम्। तत्र यद्युदात्तग्रहणं न क्रियेतानुदात्तस्य स्थाने य आदेशः स्थानिवद्भावेन सोऽनुदात्त एव स्यात्। तस्माद्वृषाकपि शब्द उदात्तत्वं प्रयोजयति। `अग्न्यादिषु पुनरन्तोदात्तेषु` इति। `फिषः` (फि।सू।1।1) इत्यादिनाग्न्यादीनामन्तोदात्तत्वम्। आदिशब्देन कुसितकुसीदयोग्र्रहणम्। `फिष्` इति प्रातिपदिकस्यैव पुनरन्याचार्याकृता संज्ञा॥
वृषाकपिशब्दो मध्योदात इति । ठ्लघावन्ते द्वयोश्च बह्वषो गुरुःऽ इति वचनात् । अस्यार्थः---अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति । ठ्बह्वषःऽ इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति । ठ्फिषःऽ इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम् ठ्लघावन्तेऽ इति मध्योदातप्रसङ्गः ॥
सिद्धान्तकौमुदी
एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥
वृषाकप्यग्निकुसितकुसीदानामुदात्तः - वृषाकपायीति । ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः,अनुदात्तं पदमेकवर्ज॑मित्यवशिष्टानामचामनुदात्तत्वम् । उदात्त इति किम् ।लघावन्ते द्वयोश्च वह्वषो गुरुः॑ इति वृषाकपिशब्दो मध्योदात्तः,नाहमिन्द्राणि रारण सख्युर्वृषाकपेः॑ इति यथा । अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात् । ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्वविधिः । ग्नायीति । "अग्निर्मूर्धा" इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशाऽ‌ऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते । ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अत एवाह — न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि "लघावन्ते" इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाह्मतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः ।
वृषाकप्यग्निकुसितकुसीदानामुदात्तः - उदात्तैकार इति ।शृस्वृस्निहीत्यादिना मनेरुप्रत्ययविधौधान्ये नि ॑दित्यधिकारान्मनुशब्द आद्युदात्तः । समासनिर्देशेनैतद्दर्शयति — उदात्त इत्यनुवर्तमानं संबन्धानुवृत्तेरैकारणेव संबध्यते त्वैकारेणापीति । ततश्चैकारौकारावृदात्तौ स्त इति प्राचोक्तं वृत्तिपदमञ्जर्यानामिति । एथः । शोणः । पृश्निः । पृषत् । इति क्रमेणोदाहरणानि । आद्युदात्त इति ।अनुदात्तं पदमेकवर्ज॑मिति शेषनिघातेनाऽनुदात्तान्त एत शब्द इति भावः । त्र्येण्येति । अत्र एतशब्दस्योपसर्जनत्वामिति भावः ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । गृह्रमिति ।गृहू ग्रहणे॒॑ऋदुपधाच्चाऽक्लृपिचृतेः॑ इति क्यप् । त्रीण्येतानि यस्या इति । ननुचित्रं किर्मिरकल्माषशबलैताश्च कर्वुरे॑इति चित्रपर्याय एतशब्दः । तथा च शकल्यां चित्रत्रयाऽभावादर्थाऽस,ङ्गतिरित्याशङ्क्या केचिदिह व्याचक्षते — एतशब्दोऽत्र एतावयवपर इति नास्त्यत्रार्थाऽसङ्गतिः । न चैवमपि गुणविषयेनपुंसकपर्योगो न सङ्गच्छतेगुणे शुल्कादयः पुंसि॑इत्युक्तेरिति वाच्यम्, एतानि — एतावयवाधिकरणानीति ब्याख्यया गुणिलिङ्गपरत्वादेतशब्दस्य नपुंसकमप्युपपद्यत इति ।प्शङ्गादुपसङ्ख्यानम् । पिशङ्गादिति ।लघावन्ते॑इति पिशङ्गशब्दस्य मध्योदात्तत्वात्अन्यको ङी॑षिति ङीषि प्राप्ते ङीबुपसङ्ख्यायते । स्वरे विशेषः ।छन्दसि क्नमेके । क्नमेके इति । असितपलितयोस्तकारस्यवर्णादनुदत्ता॑दिति नकारे प्राप्ते तं बाधित्वा तकारस्थाने क्नमादेशं तत्संनियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः । अत्रछन्दस्येके॑इत्यन्वयाद्भाषायां न्को भवत्येव । छन्दस्येवैके इच्छन्त्यन्ये तु भाषायामपीत्यर्थपर्यवसानात् । अन्यथा एकग्रहणं भाष्यकारो न कुर्यात् । न हि छन्दसिपलिन्किरिद्युवतयः॑इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते । एवं चगतो गणस्तूर्णमसिक्निकाना॑मिति प्रयोगो नाऽनुपन्नः । विशुद्धवाचीति ।दैप् शोधने॑इत्युक्तेः । अमरेण तु विशुद्धत्वसाधम्र्यात्अवदातः सितो गौरः॑इत्युक्तमिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!