॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|36
SK 493
4|1|36
पूतक्रतोरै च  
SK 493
सूत्रच्छेद:
पूतक्रतोः - षष्ठ्येकवचनम् , ऐ (लुप्तप्रथमान्तनिर्देशः) च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूतक्रतुशब्दस्य स्त्रियाम् ऐकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरने द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति।
`ऐकारश्चान्तादेशो भवति` इति। कुतः पुनरेतदवसितम्-- आदेज्ञोऽयमिति, न पुनः प्रत्ययः? उत्तरसूत्रेऽप्यादेशत्वात्। उत्तरसूत्रे ह्रयमेवैकारोऽनुवत्र्तते, तत्र चास्यादेशत्वम्। अत इहाप्यादेशत्वमवसीयते। उत्तरसूत्रे कुतोऽस्यादेशत्वं निश्चितमिति चेत्? उदात्तवचनात्। यदि हि प्रत्ययः, तस्याद्युदात्तत्वादुदात्तवचनमनर्थकं स्यात्; प्रत्ययस्वरेणैवोदात्तत्वस्य सिद्धत्वात्।`त्रय एते योगाः` इति। अयं चैकः, वक्ष्यमाणौ चानन्तरौ-- द्वौ-- एते त्रयो योगाः पुंयोगप्रकणे `पुंयोगादाख्यायाम्` 4|1|48 इत्येवमादौ द्रष्टव्याः; तस्मिन्नेषां स्वरितत्वेनानुवृत्तेः। पूतः क्रतुर्येन पुकषेण स पूतक्रतुः, तस्य स्त्री पूतक्रतायी॥
यद्ययमैकारः प्रत्ययः स्यादुतरसूत्रे उदातवचनमनर्थकं स्यात्; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह---ऐकारश्चान्तादेश इति । त्रय एते योगा इति । ठ्पुंयोगादाख्याम्ऽ इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब् भवति ॥
सिद्धान्तकौमुदी
इयं त्रिसूत्री पुंयोगे एवेष्यते (वार्तिकम्) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥
पूतक्रतोरै च - पूतक्रतोरै च । "ऐ" इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः ।इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः । पुंयोग इत्यस्य प्रयोजनमाह — ययेति । वृषाकप्यग्नि ।ऐ चे॑त्यनुवर्तते । तदाह — एषामिति ।
पूतक्रतोरै च - पूतक्रतोरै च । ऐकार आदेशो ननु प्रत्ययः, उत्तरसूत्रे उदात्तग्रहणात् । नत्विति । अन्यथालाघवन्ते इति मध्योदात्तो वृषाकपिशब्द उदात्तत्वं प्रयोजयति, अग्न्यादिषु त्रिषुस्थानेऽन्तरतमः॑इत्येव सिद्ध॑मिति वृत्त्यादिग्रन्था विरुध्येरन्निति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूतक्रतौरै च (1302) (ऐकारादेशाधिकरणम्) (5159 विधिवार्तिकम्।। 1 ।।) - पूतक्रत्वादीनां पुंयोगप्रकरणे वचनम् - (भाष्यम्) पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः ‐ पूतक्रतोः स्त्री पूतक्रतायी।। यया हि पूताः क्रतवः पूतक्रतुः सा भवति।। (5160 पूर्वपक्षवार्तिकम्।। 2 ।।) - लिङ्गसंनियोगेन सर्वत्रागमादेशानां वचने लिङ्गलुकि तत्कृतप्रसङ्गः - (भाष्यम्) लिङ्गसंनियोगेन सर्वत्रागमादेशानां वचने लिङ्गलुकि तत्कृतं प्राप्नोति ‐ पञ्ञ्चेन्द्राण्यो देवता अस्य पञ्ञ्चेन्द्रः, पञ्ञ्चाग्निः, दशाम्निः।। (पूर्वपक्षसाधकभाष्यम्) किमुच्यते सर्वत्रेति? अन्यत्रापि, नावश्यमिहैव।। क्वान्यत्र? पञ्ञ्चभिर्धीवरीभिः क्रीतः ‐ पञ्ञ्चधीवा, दशधीवेति।। लिङ्गग्रहणेन नार्थः, सर्वत्रागमादेशानां वचने लुकि तत्कृतप्रसङ्ग इत्येव।। इदमपि सिद्धं भवति ‐ पञ्ञ्चमेन गृह्णाति पञ्ञ्चकः। नैतदस्ति। मयडयं परादिः स डटो ग्रहणेन ग्रहीष्यते।। इदं तर्हि प्रयोजनं ‐ षष्ठेन गृह्णाति षट्क इति।। (5161 सिद्धान्तवार्तिकम्।। 3 ।।) - सिद्धं त्वागमादेशानामङ्गतः स्त्रीप्रकरणे वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आगमादेशा य इह स्त्रीप्रकरण उच्यन्ते तेऽङ्गाधिकारे वक्तव्याः।। स्त्रीप्रकरणग्रहणेन नार्थः। सिद्धं त्वागमादेशानामङ्गतो वचनादित्येव। इदमपि सिद्धं भवति ‐ षष्ठेन गृह्णाति षट्क इति।। (5162 प्रकारान्तरेण सिद्धान्तवार्तिकम्।। 4 ।।) - लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् - (भाष्यम्) अथ वा लिङ्गलुक्येव प्रकृतिप्रत्यापत्तिर्वक्तव्या।। लिङ्गग्रहणेन नार्थः। लुकि वा प्रकृतिप्रत्यापत्तिवचनमित्येव।। इदमपि सिद्धं भवति ‐ षष्ठेन गृह्णाति षट्क इति।। (सिद्धान्तभाष्यम्) किं पुनरत्र ज्यायः? लुकि प्रकृतिप्रत्यापत्तिवचनमित्येव ज्यायः। इदमपि सिद्धं भवति ‐ पञ्ञ्चमिः पट्वीभिः क्रीतः ‐ पञ्ञ्चपटुः, दशपटुरिति।। (परिभाषामुखेन सिद्धान्तभाष्यम्) तत्तर्हि वक्तव्यम्? न वक्तव्यम्। संनियोगशिष्टानामन्यतरापाय उभयोरप्यपायः। तद्यथा ‐ देवदत्तयज्ञदत्ताभ्यामिदं कर्म कर्तव्यम्। देवदत्तापाये यज्ञदत्तोऽपि न करोति।।