॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|31
SK 3445
4|1|31
रात्रेश्चाजसौ  
SK 3445
सूत्रच्छेद:
रात्रेः - पञ्चम्येकवचनम् , च - अव्ययम् , अजसौ - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दात् ङीप् प्रत्ययो भवति। या च रात्री सृष्टा। रात्रीभिः। अजसौ इति किम्? यास्ता रात्रयः। अजसादिष्विति वक्तव्यम्। रात्रिं सहोषित्वा। कथं तिमिरपटलैरवगुण्ठिताश्च रत्र्यः? ङीषयं बह्वादिलक्षणः। तत्र हि पठ्यते कृदिकारादक्तिनः, सर्वतो ऽक्तिन्नर्थातित्येके इति।
`अजसौ` इति। विषयसप्तमीयम्, न परसप्तमी, कुतः? स्त्रीप्रत्ययस्यान्तरङ्गत्वाज्जसः परत्वाविरोधाद्विषयसप्तमीत्वे न दोष इत्याह-- `जस्विषयत्वात्` इत्यादि।`अजसादिष्विति वक्तव्यम्िति।जासादिविषयादन्यत्र रात्रिशब्दान्ङीब्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इह लाघवार्थं `अजसि` इति वक्तव्येऽजसावित्युक्तम्, मात्राधिक्यादर्थाधिक्यसूचनार्थम्, तेनाजसादिषु ङीब्भवतीति। आदिशब्देनामादीनां ग्रहणम्।`कथम्` इत्यादि। `रात्र्यः` इति। रात्रिशब्दस्य जसन्तस्य प्रयोगः। एवं हि `दीर्घाज्जसि च` 6|1|101 इति सवर्णदीर्घत्वे प्रतिषिद्धे यणादेश उपपद्यते, नान्यथा। यदि तु रात्रिशब्दस्यायं प्रयोगः स्यात्, ततः `जसि च` 7|3|109 इति गुणे कृतेऽयादेशे च रात्रय इति रूपं स्यात्। ईकारान्तश्च रात्रिशब्दो न सम्भवति;अजसाविति ङीप्प्रतिषेधात्। ततश्च रात्र्य इति प्रयोगो नोपपद्यत इत्यभिप्रायः। `ङीषयम्ित्यादि। ननुच रात्रिशब्दो बह्वादिषु पठते, तत्कथं बह्वादिलक्षणस्ततो ङीष्भविष्यति? इत्यत आह--`तत्र हि` इत्यादि। `कृदिकारादक्तिनः`इति। कृत इकारः कृदिकारः,तदन्तान्ङीष् भवति।`वृदृभ्यां विन्` (द।उ। 1।23) वर्वी, दर्वी। यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति-- `स्त्रियां क्तिन्` 3|3|94 कृतिः, ह्मतिः। `सर्वतोऽक्तिन्नर्थादित्येके` इति। एक आचार्या सर्वतोऽक्तिन्नर्थात् कृदिकारादकृदिकाराच्च ङीष् भवतीत्याहुः, राजिः राजी। राजिशब्दोऽव्ययुत्पत्तिपक्षे कृतिकारान्तो न भवति। अक्तिन्नर्थादिति, न विद्यते क्तिन्नर्थो यस्य सोऽक्तिन्नर्थः, तस्मात् सर्वतो ङीष् भवति। यस्तु क्तिन्नर्थस्तदन्तान्न भवति-- कृतिः ह्मतिः। `आक्रोशे नञ्यनिः` 3|3|112 -- अकरणिः, अहरणिः। रात्रिशब्दश्चायं व्युत्पत्तिपक्षे कृदिकारान्तो भवति, `रा आदाने` (धातुपाठः-1057), `राशदिभ्यां त्रिप्` (द।उ।1।36) रात्रिः, तस्मात् पक्षे ङीष् रात्री। अव्युत्पत्तपक्षे तु कृदिकारान्तो न भवति, ततः `सर्वतोऽक्तिन्नर्थात्` (ग।सू।51) इति ङीष्॥
कथमित्यादि । दीर्घान्ताज्जसि ठ्दीर्घाज्जसि चऽ इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे ठ्रात्र्यःऽ इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु ठ्जसि चऽ इति गुणे ठ्रात्र्यःऽ इति रूपं स्यात् । दीर्घान्तश्च रात्रिशब्दः संज्ञाच्छन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ।ल्त इति चेत्, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष् भवति ठ्दृजागृभ्यां विःऽ, दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति---कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति---ठाक्रोशे नञ्यनिःऽ, अकरणिः, अहरणिः । रात्रिशब्दोऽयम् ठ्राशदिभ्यां त्रिप्ऽ इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपतिपक्षे ठ्सर्वतोऽक्तिन्नर्थात्ऽ इति ङीष् । सूत्रं तु ङीबर्थम्---रात्री व्यख्यात्, रात्रीभिरस्मा अहभिर्दशस्येत्; अत्राद्यौदातत्वं भवति ॥
सिद्धान्तकौमुदी
रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
रात्रेश्चाजसौ (1298) (ङीबधिकरणम्) (सिद्धान्तभाष्यम्) अजसादिष्विति वक्तव्यम्। इहापि यथा स्यात् ‐ रात्रिं रात्रिं स्मरिष्यन्तः। रात्रिं रात्रिमजानतः। सर्वां रात्रिं सहोषित्वा। वृत्यामेकान्तरात्रिम्।।