॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|30
SK 488
4|1|30
केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च  
SK 488
सूत्रच्छेद:
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3] , अनुपसर्जनात्  [4|1|14]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
संज्ञाछन्दसोः इत्येव। केवलाऽदिभ्यः प्रातिपदिकेभ्यः संज्ञायां, छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति। केवली। केवला इति भाषायाम्। मामकी। मामिका इति भाषायाम्। मित्रावरुणयोर् भागधेयीः स्थ। भागधेया इति भाषायाम्। सा पापी। पापा इति भाषायाम्। उता अपरीभ्यो मघवा विजिग्ये। अपरा इति भाषायाम्। समानी प्रवाणी। समाना इति भाषायाम्। आर्यकृती। आर्यकृता इति भाषायाम्। सुमङ्गली। सुमङ्गला इति भाषायाम्। भेषजी। भेषजा इति भाषायाम्।
अथ मामकग्रहणं किमर्थम्, यावताऽस्मदः `तस्येदम्` 4|3|120 इत्यणि कृते `तवकममकावेकवचने` 4|3|3 इतिममकादेशेन मामक इति भवति, ततश्च `टिड्ढाणञ्` 4|1|15 इत्येव ङीप्सिद्धेः? सत्यमेतत्; नियमार्थं तु मामकशब्दस्य ग्रहणम्; संज्ञाच्छन्दसोर्यथा स्यात्, अन्यत्र मा भूदिति॥
केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति ठ्युष्मदस्मदोरन्यतस्यां खञ्चऽ इत्यम्, ठ्तवकममकावेकवचनेऽ इति ममकादेशः, तत्राणन्तत्वात् ठ्टिड्ढाणञ्ऽ इत्येव सिद्धे नियमार्थं मामकग्रहणम्---संज्ञाच्छन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि ठ्मामकनरकयोरुपसंख्यानम्ऽ इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारातद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठयः, न पवर्ग्यः । आर्येण कृतेति । प्राक् सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ॥
सिद्धान्तकौमुदी
एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।
केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च - केवलमामक । नित्यं संज्ञाच्छन्दसोः॑ इति पूर्वसूत्रमनुवर्तते । एवंचअन उपधालोपिनोऽन्यतरस्या॑मित्यन्यतरस्यांग्रहणं निवृत्तम् ।सङ्ख्याव्ययादेर्ङी॑बित्यतो ङीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज-इत्येतेभ्यो नवब्य इत्यर्थः । छन्दस्युदाहरति — अथोत इन्द्रः केवलीरिति । मामकी तनू इति । मदीयायामित्यर्थः ।युष्मदस्मदोरन्यतरस्यां खञ् चे॑त्यणि "तवकममकावेकवचने" इति प्रकृतेर्ममकादेशः, ङीप्,सुपां सुलुगि॑ति सप्तम्या लुक् ।मित्रावरुणोर्भागधेयी स्थ॑ । "भागरूपनामभ्योधेयः" इति स्वार्थिको धेयप्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपिस्वार्थिकाः प्रकृतेः क्वचिल्लिङ्गवचनान्यतदिवन्र्तते॑ इति स्त्रीत्वं, ङीप् ।तन्वः सन्तु पापीः॑ । पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात्स्त्रीत्वे ङीप् ।उत वापरीभ्यो मघवा विजिग्ये॑ । अपरशब्दः पवर्गमध्यः । "समानीव आकूतिः ।" आर्यकृतीति क्वचिद्वेदेऽन्वेषणीयम् । एवं सुमङ्गलीति च । "सुमङ्गलीरियं वधूः" इत्यत्र "छन्दसीवनिपौ च" इति मत्वर्थे ईप्रत्ययः ।शिवा रुद्रस्य भेषजा.॑ भेषजशब्दो रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्र#आत्स्त्रीत्वमपि । यद्वा भिषज इयमित्यर्थेऽणि इकारस्य एकारोऽत एव निपातनात् । संज्ञायामप्येवमेव सर्वत्र ङीबुदाहार्यः ष संज्ञाच्छन्दोभ्यामन्यत्र सु केवला मामिका इत्यादि । नन्वणन्तत्वादेवटिड्ढाणञि॑ति ङीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह — मामकग्रहणमिति । लोकेऽसंज्ञायां च ङीब्निवृत्त्यर्थमिति भावः । एवं भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायामिदं नोपन्यस्तम् ।
केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च - केवल । छन्दसिमामकी तनू॑ ।मित्रावरुणयोर्भागधेयी॒॑तन्वः सन्तु पापीः॑ ।॒उतापरूभ्यः॑ ।समानी व आकूतिः॑ । आर्यकृती । सुमङ्गली ।सुमङ्गलीरियं वधूः॑इत्यत्र तुछन्दसीवनिपौ॑इति मत्वर्थे ईप्रत्ययो बोध्यः ।शिवा रुद्रस्य भेषजी॑ । अन्यत्र केवलेत्यादीति । मामकनरकयोरुपसङ्ख्यानादित्वम् । मामिका.भागशब्दात्पुंलिङ्गात्स्वार्थे धेयप्रत्ययः ।स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑इति स्त्रीत्वम् । भागधेया । अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः । पापा । अपरा । समाना । आर्येण कृतेति प्राक् सुबुत्पत्तेः कृदन्तेन समासः । टाप् । आर्यकृता । भिषज इयमित्यणि आदिवृद्धेरपवादोऽस्मादेव निपातनादेकारः ।संज्ञाछन्दसो॑रिति नियमादन्यत्र — भेषजा ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (1297) (ङीबधिकरणम्) (आक्षेपभाष्यम्) मामकग्रहणं किमर्थम्, नाणन्तादित्येव सिद्धम्? (समाधानभाष्यम्) नियमार्थोऽयमारम्भः ‐ मामकशब्दात्संज्ञाछन्दसोरेव।। (प्रत्युदाहरणभाष्यम्) क्व मा भूत्? मामिका बुद्धिरिति।।