Page loading... Please wait.
4|1|26 - संख्याव्ययादेर्ङीप्‌
॥ तस्मै पाणिनये नमः ॥
4|1|26
SK 485
संख्याव्ययादेर्ङीप्‌  
सूत्रच्छेदः
संख्या-अव्ययादेः (पञ्चम्येकवचनम्) , ङीप् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्वेण ङीषि प्राप्ते ङीब् वधीयते। सङ्ख्यादेः अव्ययादेश्च बहुव्रीहेरूधस्शब्दान्ताद् ङीप् प्रत्ययो भवति। सङ्ख्यादेः तावत् द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी, त्रिविधोध्नी इत्यत्र अपि यथा स्यात्।
`द्व्यूघ्नी`इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः।`आदिग्रहणं किम्` इति। एवं मन्यते-- संख्याव्ययाभ्यामित्येव वक्तव्यम्, `बहुव्रीहेरूधसः` 4|1|25 इति हि वत्र्तते,, तत्रैवमभिसम्बन्धः करिष्यते--- संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। `द्विविधोघ्नी` इत्यादि। यद्यादिग्रहणं न क्रियेत तदा `संख्याव्ययाभ्याम्` इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति॥
पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे ठ्संख्याव्ययाभ्याम्ऽ इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः--शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥
सिद्धान्तकौमुदी
ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ।
संख्याऽव्ययादेर्ङीप् - सङ्ख्याव्ययादेर्ङीप् । सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवाद इति ।बहुव्रीहेरूधसो ङी॑षित्यस्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादेरुदाहरति — द्व्यूध्नीति । द्वे ऊधसी यस्या इति विग्रहः । बहुव्रीहेरित्येवेति ।बहुव्रीहे॑रित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासस्य अबहुव्रीहित्वान्न ङीप् । अत एव नानङ्, नापि ङीष् ।
संख्याऽव्ययादेर्ङीप् - सङ्ख्याऽव्यया । आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.