Page loading... Please wait.
4|1|172 - कुरुणादिभ्यो ण्यः
॥ तस्मै पाणिनये नमः ॥
4|1|172
SK 1190
कुरुणादिभ्यो ण्यः  
सूत्रच्छेदः
कुरु-नादिभ्यः (पञ्चमीबहुवचनम्) , ण्यः (प्रथमैकवचनम्)
अनुवृत्तिः
अपत्यम्  4|1|92 (प्रथमैकवचनम्) , तस्य  4|1|92 (षष्ठ्येकवचनम्) , क्षत्रियात्  4|1|168 (पञ्चम्येकवचनम्) , जनपदशब्दात्  4|1|168 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् कुरु-नादिभ्यः ण्यः
सूत्रार्थः
"कुरु" अयम् क्षत्रियवाची शब्दः तथा नकारादि-क्षत्रियवाचिशब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः "तस्य अपत्यम्" अस्मिन् अर्थे ण्य-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जनपदशब्दात् क्षत्रियातित्येव। कुरुशब्दात् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः नैषध्यः। नैपथ्यः। तस्य राजनि इत्येव, कौरव्यो राजा।
अञणोरपवादः। कुरुशब्दस्यतु द्व्यज्लक्षणस्याणः। कुरुशब्दात् `कुर्वादिभ्यो ण्यः` 4|1|151 इति पूर्वमपत्ये उक्तः। तस्य यो जनपदशब्द क्षत्त्रियो न भवति सोऽवकाशः, यस्तु जनपदशब्दः क्षत्त्रियस्तस्मात् परत्वादञि तदपवादो द्व्यज्लक्षणोऽण् स्यात्। अतस्तं बाधितुं पुनर्ण्यो विधीयते॥
आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्, तदाह---कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद् ठ्द्व्यञ्मगधऽ इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं ठ्नैषधोऽर्हति चेदघम्ऽ इति ? स्वच्छन्दवाच ऋषयः । कथं ठ्स नैषधस्यार्थपतेः सुतायाम्ऽ इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ॥
सिद्धान्तकौमुदी
कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥
कुरुणादिभ्यो ण्यः - कुरुनादिभ्यो ण्यः । कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति । कुरोरपत्यं, कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति ।तस्येदमित्यनेने॑ति शेषः ।
कुरुणादिभ्यो ण्यः - कुरुना । नकार आदिर्येषां ते नादयः । कुरुशब्दाद्व्द्यज्लक्षणे अणि प्राप्ते, नादिभ्यस्त्वञि प्राप्ते[च] वचनम् ।
लघुसिद्धान्तकौमुदी
कौरव्यः। नैषध्यः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.