॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|155
SK 1179
4|1|155
कौसल्यकार्मार्याभ्यां च  
SK 1179
सूत्रच्छेद:
कौसल्य-कार्मार्याभ्याम् - पञ्चमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
फिञ्  [4|1|154] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , प्राग्दीव्यतोऽण्  [4|1|83] , समर्थानां प्रथमाद्वा  [4|1|82]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) कौसल्य-कार्मार्याभ्याम् फिञ्
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे कौसल्यशब्दात् कार्मार्यशब्दात् च फिञ्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कौसल्यकार्मार्यशब्दाभ्याम् अपत्ये फिञ् प्रत्ययो भवति। इञो ऽपवादः। कौसल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेव अयं प्रतययः इष्यते, कोसलस्य अपत्यं, कर्मारस्य अपत्यम् इति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। यथा च स्मृत्यन्तरम्, "दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्य" इति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छग्यायनिः। वार्ष्यायणिः।
`परमप्रकृतेरेवायं प्रत्यय इष्यते` इति। कोशलशब्दात्, कर्मारशब्दाच्च। एवकाः `वृद्धेत्कोशलाजादाञ्ञ्यङ्` 4|1|169 इति ञ्यङन्तो यः कौशल्यशब्दः, यश्च `सेनान्तलक्षणकारिभ्यश्च` 4|1|152 इति कारिलक्षणण्यप्रत्ययान्तः कर्मार्यशब्दः तयोव्र्यवच्छेदाय।यदि मूलप्रकृतेरेवेष्यते, कथमिदं विकृतं प्रकृतिरूपं श्रयूते? इत्याह-- `प्रत्ययसन्नियोगेन` इत्यादि। न चेयं स्वमनीषिका, अपि त्वाचार्यणामेव भाष्यकारप्रभृति#ईनामिदं मतमिति दर्शयन्नाह-- `तथा च` इत्यादि। कः पुनः परमप्रकृतेः प्रत्ययान्ताद्वत्पत्तौ विशेषः? परमप्रकृतेरुत्पत्तावपत्यमात्रे प्रत्ययो लभ्यते, प्रत्ययान्तात् तूत्पत्तौ `गोत्राद्यूनि` 4|1|94 इति वचनात् `यून्यपत्ये` इत्येव विशेषः। `युड् वादिष्टस्य` इति। आदिष्टग्रहणमायन्नादेशए कृते यथा स्यादित्येवमर्थम्; अन्यथा ह्रनादित्वादायन्नादेशो न स्यात्। `दागव्यावनिः` इति। `ओर्गुणेः` 6|4|146 कृते `वान्तो यि प्रत्यये` 6|1|76 इत्यवादेशः॥`कात्र्रायणिः` इति। कर्त्तुरपत्यमित्यण्--- कार्त्रः, ततः फिञ्। ` दाक्षायणः` इति। दाक्षिशब्दादिञन्ताद्यूनि पञिञोश्च` 4|1|101 इति फक्। प्रतिपादनादि सुगमम्॥
कोसलशब्दाद् ठ्वृद्धेत्कोसलाजादाञ् ञ्यङ्ऽ, कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति---परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह---प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह---तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥
सिद्धान्तकौमुदी
अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ ।छागवृषयोरपि (वार्तिकम्) ॥ छाग्यायनिः । वार्ष्यायणिः ॥
कौसल्यकार्मार्याभ्यां च - कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः ।
कौसल्यकार्मार्याभ्यां च - कौशल्य । परमप्रकृतेरेवायमिति । यदि तुवृद्धेत्कोसले॑ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः ।छागवृषयोरपि । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फैञ्प्रकरणेदगुकोसलकर्मारच्छागवृषाणां युट्चाऽ‌ऽदिष्टस्यं॑इति वार्तिकात् । आदिष्टस्य । आयन्नदेशस्येत्यर्थः । अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तुदागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कौसल्यकार्मार्याभ्यां च (1401) (फिञ्ञोऽधिकरणम्) (विकृतनिर्देशस्य विवक्षितत्वबोधकभाष्यम्) किमिदं कौसल्यकार्मार्ययोर्विकृतयोर्ग्रहणं क्रियते? एवं विकृताभ्यां यथा स्यात्। अत्यल्पमिदमुच्यते ‐ कौसल्यकार्मार्याभ्यां चेति।। (5309 सूत्रांशपूरकवार्तिकम्।। 1 ।।) - फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् च - (भाष्यम्) फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् चेति वक्तव्यम्। दगु ‐ दागव्यायनिः। कोसल ‐ कौसल्यायनिः। कर्मार ‐ कार्मार्यायणिः। छाग ‐ छाग्यायनिः। वृष ‐ वार्ष्यायणिः। (आक्षेपभाष्यम्) यदि युट् क्रियते युटि कृतेऽनादित्वादादेशो न प्राप्नोति। इदमिह संप्रधार्यम् ‐ आदेशः क्रियतां युडिति किमत्र कर्तव्यम्? परत्वादादेशः। नित्यो युट् ‐ कृतेऽप्यादेशे प्राप्नोति, अकृतेऽपि। युडप्यनित्यः ‐ अन्यस्य कृत आदेशे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। अन्तरङ्गस्तर्हि युट्। काऽन्तरङ्गता? उत्पत्तिसंनियोगेन युडुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्यादेश उच्यते। आदेशोऽप्यन्तरङ्गः। कथम्? वक्ष्यत्येतत् ‐ आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति। अनवकाशस्तर्हि युट्।। एवं तर्हि पूर्वान्तः करिष्यते। यदि पूर्वान्तः क्रियते ‐ दागव्यायनिः, ओर्गुणो न प्राप्नोति।। (समाधानभाष्यम्) अस्तु तर्हि परादिरेव। ननु चोक्तम् ‐ युटि कृतेऽनादित्वादादेशो न प्राप्नोतीति। नैष दोषः। सिद्धं त्वादिष्टस्य युड्वचनात्, सिद्धमेतत्। कथम्? आदिष्टस्य युड्वचनात्। युट्चादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। चेन संनियोगः करिष्यते ‐ युट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेश इति।।