॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|138
SK 1161
4|1|138
क्षत्राद्घः  
SK 1161
सूत्रच्छेद:
क्षत्रात् - पञ्चम्येकवचनम् , घः - प्रथमैकवचनम्
अनुवृत्ति:
तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) क्षत्रात् घः
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे "क्षत्र"शब्दात् घ-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
क्षत्रशब्दादपत्ये घः प्रत्ययो भवति। क्षत्रियः। अयम् अपि जातिशब्द एव। क्षात्रिरन्यः।
`घप्रत्ययो भवति` इति। घशब्द एव, न तु तरप्तमपाविति वेदितव्यम्। कथं पुनरेतल्लभ्यते,यावता `घः` इति तरप्तमपोरियं संज्ञा, चोच्चरिता संज्ञिनं सम्प्रत्ययायतीति तयोरेव ग्रहणं युक्तम्? नैष दोषः; प्रत्ययविधौ यत्र `घः` इति श्रूयते,तत्र स्वरूपस्य ग्रहणं भवति; ज्ञापकात्। यदयं प्रत्ययादेर्घकारस्येयादेशं शास्ति, तज्ज्ञापयति-- यत्र प्रत्ययविधौ घः श्रूयते स्वरूपमेव गृह्रत इति। न हि संज्ञिनोग्र्रहणेन प्रत्ययादेर्घः सम्भवति॥
घप्रत्ययो भवतीति । घशब्द एव, न तरप्तमपौ; अन्यथा सर्वत्रैव प्रत्ययविधौ घ इति तरप्तमपोर्ग्रहणात्प्रत्ययादेर्घकारस्येयादेशवचनमनुपपन्नं स्यात्, न च ठ्तुग्राद्धन्ऽ, ठ्घच्छौ चऽ इति घन्घचाववकाशौ, तत्रापि संज्ञाशब्दः सानुबन्ध उपातः । अनुबन्धस्तु संज्ञ्यर्थ इति सम्भवात्, ठ्ङ्मुण्नित्यम्ऽ इतिवत् । ठ्किमिदभ्यां वो घःऽ इत्यत्रापि तरप्तमपोरेवादेशत्वं विज्ञाअयते । अयमपि जातिशब्द एवेति । राजन्यजात्यभिधाने घो भवति, वैश्याशूद्रयोरुत्पादिते तु इञेवेत्यर्थः ॥
सिद्धान्तकौमुदी
क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥
क्षत्राद्घः - क्षत्राद्धः । "अपत्ये" इति शेषः । क्षत्रिय इति । घस्य इयादेशेयस्येति चे॑त्यकारलोपः । क्षात्रिरन्य इति । क्षत्राच्छूद्रादाबुत्पन्न इत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
क्षत्त्रियः। जातावित्येव। क्षात्त्रिरन्यत्र॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!