॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|126
SK 1131
4|1|126
कल्याण्यादीनामिनङ्  
SK 1131
सूत्रच्छेद:
कल्याणी-आदीनाम् - षष्ठीबहुवचनम् , इनङ् - प्रथमैकवचनम्
अनुवृत्ति:
ढक्  [4|1|120] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) कल्याणी-आदीनाम् इनङ् (आदेशः), ढक् प्रत्ययः
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे कल्याण्यादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति, तथा एतेषाम् शब्दानाम् "इनङ्" आदेशः अपि जायते ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कल्याणी इत्येवम् आदीनां शब्दानाम् अपत्ये ढक् प्रत्ययो भवति, तत्संनियोगेन च इनङादेशः। स्त्रीप्रत्ययान्तानाम् आदेशार्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद्। अन्येषाम् उभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7|3|19 इत्युभयपदवृद्धिः। कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कन्ष्ठा। मध्यमा। परस्त्री।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥
कल्याण्यादीनामिनङ् - काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठन्ते । तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते ।
कल्याण्यादीनामिनङ् - कल्याण्यदीनाम् । इह परस्त्रीशब्दः पठते ।परस्य स्त्री परस्त्री॑ति षष्ठीसमासः । पारस्त्रैणेयः । परभार्यायामुत्पन्न इत्यर्थः । अनुशतिकादित्वादुभयपदवृद्धिः । बिदादिगणे तुपरस्त्री परशुं चे॑ति पठते ।प्राप्नोती॑ति शेषः । तत्र परा चासौ स्त्री चेति कर्मधारयः । परस्त्रिया अपत्यं — पारशवःष ब्राआहृणाच्छूद्रायां तेनैवोढायामुत्पन्नः । सा च जात्यन्तरयोगात्परस्त्री । न च परआआदेशस्य स्थानिवद्भावात्पारशवेऽपिअनुशतिकादीनां चे॑त्युभयपदवृद्धिः स्यादिति वाच्यं,सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः । इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनङर्थं ग्रहणम् । अन्येषां तूभयार्थम् । कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!