॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|123
SK 1126
4|1|123
शुभ्रादिभ्यश्च  
SK 1126
सूत्रच्छेद:
शुभ्रादिभ्यः - पञ्चमीबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
ढक्  [4|1|120] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) शुभ्रादिभ्यः ढक्
सूत्रार्थ:
"तस्य अपत्यम्" अस्मिन् अर्थे शुभ्रादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
शुभ्र इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः ढक् प्रत्ययो भवति। यथायोगम् इञादीनाम् अपवादः। शौभ्रेयः। वैष्टपुरेयः। चकारो ऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति, तेन गाङ्गेयः, पाण्डवेयः इत्येवम् आदि सिद्धं भवति। शुभ्र। विष्टपुर। ब्रह्मकृत। शतद्वार। शतावर। शतावर। शलाका। शालाचल। शलाकाभ्रू। लेखाभ्रू। विमातृ। विधवा। किंकसा। रोहिणी। रुक्मिणी। दिशा। शालूक। अजबस्ति। शकन्धि। लक्ष्मणश्यामयोर् वासिष्ठे। गोधा। कृकलास। अणीव। प्रवाहण। भरत। भारम। मुकण्डु। मघष्टु। मकष्टु। कर्पूर। इतर। अन्यतर। आलीढ सुदत्त। सुचक्षस्। सुनामन्। कद्रु। तुद। अकाशाप। कुमारीका। किशोरिका। कुवेणिका। जिह्माशिन्। परिधि। वायुदत्त। ककल। खट्वा। अम्बिका। अशोका। शुद्धपिङ्गला। खडोन्मत्ता। अनुदृष्टि। जरतिन्। बालवर्दिन्। विग्रज। वीज। श्वन्। अश्मन्। अश्व। अजिर।
`यथायोगम्` इत्यादि। ये तावदकारान्तास्तेभ्य इञोऽपवादः। शलाका, कुरेका,अम्बिका, अशोका, खट्वा, पिङ्गला, खण्डोन्मत्ता-- इत्येतेम्पस्तन्नामिकाणः। विधवाशब्दात् क्षुद्रालक्षणस्य ढ्रकः। किंकसा, रोहिणी, अजवस्ति, शकन्धि, कृकलास, सुदत्त, परिधि-- एतेभ्यश्चतुष्पाल्लक्षणस्य ढञः। गोधाशब्दाद् गोधाया ढ्रकः, वचनसामथ्र्यात् सोऽपि भवत्येव। शेषेभ्य औत्सर्गिकोऽण इत्येष यथायोगार्थः। `लक्षणश्यामयोर्वासिष्ठे` इति। लक्षण, श्याम-- इत्येतयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति। लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः। श्यामेयो वासिष्ठः, श्यामायनोऽन्यः। अआआदित्वात् फञ्॥
यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दातु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति । ठ्ढेअलोपोऽकद्रवाऽ इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्, पाण्डवशब्दाद्वा प्रत्ययः । लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ् ॥
सिद्धान्तकौमुदी
ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥
शुभ्रादिभ्यश्च - शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इञाद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः ।
शुभ्रादिभ्यश्च - शुभ्रादिभ्यश्च । चकारस्त्वाकृतिगणत्वत्वद्योतनार्थ इत्याहुः । मृकण्डशब्दोऽत्र पठते । मार्कण्डेयः । शुभ्र, मृकण्ड, अआ, विमातृ । विधवा, गोधा, प्रवाहणेत्यादि । आकृतिगणोऽयम् । तेनपाण्डवेय॑इत्यादि सिद्धम् । इहाऽदन्तेषु इञ् प्राप्तः, विधवाशब्दात्क्षुद्रालक्षणो ढक्, चतुष्पाज्जातिवाचिषु ढञ्, गोधाशब्दाड्ढ्रग्वनात्सोऽपि भवति, क्वचिदौत्सर्गिकोऽणं प्राप्त इति बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!