॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|122
SK 1125
4|1|122
इतश्चानिञः  
SK 1125
सूत्रच्छेद:
इतः - पञ्चम्येकवचनम् , च - अव्ययम् , अनिञः - पञ्चम्येकवचनम्
अनुवृत्ति:
द्‍व्यचः  [4|1|121] - पञ्चम्येकवचनम् , ढक्  [4|1|120] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य अपत्यम्" (इति) अनिञः द्व्यचः इतः ढक्
सूत्रार्थ:
यः इकारान्तशब्दः इञ्-प्रत्ययान्तः नास्ति, यस्मिन् च द्वौ स्वरौ स्तः, तस्मात् शब्दात् "तस्य अपत्यम्" अस्मिन् अर्थे ढक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यचः इत्यस्य अनुकर्षणार्थः। इकारान्तात् प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। आत्रेयः। नैधेयः। इतः इति किम्? दाक्षिः। प्लाक्षिः। अनिञः इति किम्? दाक्षायणः। प्लाक्षायणः। द्व्यचः इत्येव, मरीचेरप्त्यं मारीचः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥
इतश्चानिञः - इतश्चाऽनिञः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च-कश्चित् । आत्रेय इति । अत्रिः प्रसिद्धः । परत्वादयमृष्यणमपि बाधत इति भावः ।
इतश्चानिञः - इतश्च । इतः किम् । दाक्षिः । अनिञः किम् । दाक्षायणः । व्द्यचः किम् । उदधेरपत्यमौदधः । काशिकायां तुमरीचेर्मारीचः॑इत्युदाह्मतं, तदसत् । बाह्वादित्वेनेञ्प्रवृत्तेः । न चास्य बाह्वादित्वमव्वक्षितम्,मरीचिशब्दो बाह्वादिषु पठते॑इतिमिदचोऽन्त्यात्परः॑इति सूत्रे भाष्ये स्थित्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!