॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|12
SK 460
4|1|12
अनो बहुव्रीहेः  
SK 460
सूत्रच्छेद:
अनः - पञ्चम्येकवचनम् , बहुव्रीहेः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , स्त्रियाम्  [4|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिह उदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुशर्मा, सुशर्माणौ, सुशर्माणः। बहुव्रीहेः इति किम्? अतिक्रान्ता राजानम् अतिराजी।
`अनुपधालोपो बहुव्रीहिरिहोदाहरणम्` इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह-- `उपधालोपिनो हि` इत्यादि। यस्मात् `अन उपधालोपिनोऽन्यतरस्याम्` 4|1|28 इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम्-- `सुपर्वा` इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च `न संयोगाद्वमन्तात्` इत्यल्लोपो न भवति।`अतिराजी` इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा।91) इति `कुगतिप्रादयः` 2|2|18 इति तत्पुरुषोऽयम्॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥
अनो बहुव्रीहेः - अनो बहुव्रीहेः । "अन" इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिशेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र "अन उपधालोपिनः" इति विकल्पो न प्रवर्तितुमर्हति ।
अनो बहुव्रीहेः - अनो बहुव्रीहेः । ननुराजयुध्वे॑त्यादिसिद्धयेऽवश्यं वक्तव्येनवनो न हशः॑इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण । मैवम् । अन्नन्ताद्बहुव्रीहेःडाबुभाभ्या॑मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात् । तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तोवनो र चे॑ति यो रेफः सोऽपि दुर्लभ एवेतिवनो न हशः॑इति वार्तिकमबहुव्रीह्रर्थमिति फलितम् । बहुयज्वानाविति ।न संयोगो॑दिति निषेधान्नायमुपधालोपि । तेनाऽत्रअन उपधालोपिन॑इति वक्ष्यमाणविकल्पो न प्रवर्तते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!