Page loading... Please wait.
4|1|102 - शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु
॥ तस्मै पाणिनये नमः ॥
4|1|102
SK 1104
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु  
सूत्रच्छेदः
शरद्वत्-शुनक-दर्भात् (पञ्चम्येकवचनम्) , भृगु-वत्स-आग्रायणेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
अपत्यम्  4|1|92 (प्रथमैकवचनम्) , तस्य  4|1|92 (षष्ठ्येकवचनम्) , गोत्रे  4|1|98 (सप्तम्येकवचनम्) , फक्  4|1|99 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82 प्राग्दीव्यतोऽण्  4|1|83
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) शरद्वत्-शुनक-दर्भात् भृगु-वत्स-आग्रायणेषु फक्
सूत्रार्थः
शरद्वत्-शब्दात् भृगुगोत्रस्य विषये, शुनक-शब्दात् वत्सगोत्रस्य विषये, तथा दर्भ-शब्दात् आग्रायणगोत्रस्य विषये गोत्रापत्यस्य निर्देशं कर्तुम् फक् प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोत्रे इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतो ऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनको ऽन्यः। दार्भायणो भवति आग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी। ताभ्याम् अञो ऽपवादः फक्।
`गोत्र इत्येतत्` इति। यदि तर्हि गोत्र इति वत्र्तते, भुगुवत्साभ्यां मूलप्रकृतिभ्यां प्रत्ययार्थस्य विशेषणं नोपपद्यते, गोत्रप्रत्ययाभ्यामेव हि ताभ्यां गोत्रापत्यं प्रत्ययार्थः शक्यो विशेषयितुम्त एव युक्तं स्याद्वक्तुम्-- भार्गववात्स्यायनाग्रायणेष्विति? नैष दोषः;गोत्राधिकारसामथ्र्याद्धि गोत्रापत्य एव वत्र्तमानाविह गृह्रेते, कार्ये कारणोपचारं कृत्वा। तामेव गोत्रापत्ये तयोर्वृतिंत दर्शयितुं वृत्तावित्युक्तम्-- `शारद्वतायनो भवति भार्गवश्चेत्, शौनकायनो भवति वात्स्यश्चेत्` इति॥
शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति ठ्यञञोश्चऽ इति च गोत्रप्रत्ययस्य लुक्, तदाह---भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥
सिद्धान्तकौमुदी
गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्नायणश्चेत् । दार्भिरन्यः ॥
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु - शरद्वच्छुनक । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे फगिति । आद्यौ विदादी इति । शरद्वच्छुनकशब्दौ विदादी । अतस्तदुभयविषयेऽञपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः — कस्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् ।
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु - शरद्वच्छुनक । भृगः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात् । एवं शुनकस्यापत्यं न भवति वत्सः । अतोऽत्र भार्गवश्च वात्स्यश्चाग्रायणश्चेति द्वन्द्वेअत्रभृगु॑इतियञिञोश्चे॑ति च यथासंभवं लुग्बोध्यः । यद्यप्यत्र बहुत्वाऽभावात्अत्रिभृगु॑इत्यादिना लुग्दुर्लभस्तथापि युगपदधिकरणवचनतायां वर्तिपदानां बह्वर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक् । अतो व्याचष्टे — -भार्गवश्चेदिकि । वात्स्यश्चेदिति च ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.