॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|100
SK 1102
4|1|100
हरितादिभ्योऽञः  
SK 1102
सूत्रच्छेद:
हरितादिभ्यः - पञ्चमीबहुवचनम् , अञः - पञ्चम्येकवचनम्
अनुवृत्ति:
गोत्रे  [4|1|98] - सप्तम्येकवचनम् , फक्  [4|1|99] - प्रथमैकवचनम् , तस्य  [4|1|92] - षष्ठ्येकवचनम् , अपत्यम्  [4|1|92] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1] , तद्धिता:  [4|1|76] , समर्थानां प्रथमाद्वा  [4|1|82] , प्राग्दीव्यतोऽण्  [4|1|83]
सम्पूर्णसूत्रम्
"तस्य गोत्रे अपत्यम्" (इति) हरितादिभ्यः अञः फक्
सूत्रार्थ:
युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति ।
Additional description will be added soon.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हरितादिर्बिदाद्यन्तर्गणः। हरितादिभ्यो ऽञन्तेभ्यो ऽपत्ये फक् प्रत्ययो भवति। इञो ऽपवादः। हरितस्य अपत्यं हारितायनः। कैन्दासायनः। ननु च गोत्रे इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे 4|1|93 इति वचनात्? सत्यम् एतत्। इह तु गोत्राधिकारे ऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस् तु उत्तरार्थः।
`न च` इत्यादि चोद्यम्। `सत्यमेतत्` इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामथ्र्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः? इत्याह-- `गोत्राधिकार उत्तरार्थः` इति॥
ठ्हरितादिभ्यःऽ, ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे---हरितादिभ्योऽञन्तेभ्य इति । ठ्हरितादिभ्यो गोत्रापत्येऽञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह---गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥
सिद्धान्तकौमुदी
एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥
हरितादिभ्योऽञः - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!