॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|57
SK 3379
3|4|57
अस्यतितृषोः क्रियाऽन्तरे कालेषु   🔊
SK 3379
सूत्रच्छेद:
अस्यति-तृषोः - षष्ठीद्विवचनम् , क्रियान्तरे - सप्तम्येकवचनम् , कालेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्वितीयायाम् इत्येव। क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः। क्रियान्तरे धात्वर्थे वर्तमानाभ्याम् अस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषु उपपदेषु णमुल् प्रत्ययो भवति। द्व्यहात्यासं गाः पाययति, द्व्यहमत्यासं गाः पाययति। त्र्यहात्यासं गाः पाययति, त्र्यहमत्यासं गाः पाययति। द्व्यहतर्षं गाः पाययति, द्व्यहंतर्षं गाः पाययति। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययति इत्यर्थः। अस्यतितृषोः इति किम्? द्व्यहमुपोष्य भुङ्क्ते। क्रियान्तरे इति किम्? अहरत्यस्य इषून् गतः। न गतिर् व्यवधीयते। कालेषु इति किम्? योजनम् अत्यस्य गाः पाययति। अध्वकर्मकम् अत्यसनं व्यवधायकम्, न कालकर्मकम्।
`अस्यतितृषोः`इति। `असु क्षेपणे` (धातुपाठः-1209), ञितृषा पिपासायाम्` (धातुपाठः-1228)। `क्रियामन्तरयति` इत्यादि। अन्तरं करोतीति `तत्करोति`(वा।200) इत्यादिना णिच्। `क्रियामन्तरयति क्रियान्तरः` (इति) कर्मण्यण्, णिलोपः।अन्तरशब्दश्चायमिह व्यवधाने वत्र्तत इति दर्शयन्नाह--`क्रियाव्यवधायकः`इति। `पाययति`इति। `पा पाने` (धातुपाठः-925), णिच्। `शाच्छा` 7|3|37 इत्यादिना युक्। `अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते` इति। यच्चायं पानं यच्च द्व्यहेऽतीते पानं भविता तन्मध्यवर्तित्वाद्तयसननतर्षणयोः। `अद्य पाययित्वा` इत्यादिना द्व्यहात्यासं गाः पाययतीत्यस्यार्थमाचष्टे। एतदनुसारेणान्यस्याप्यर्थो गम्यत इतिन व्याख्यातः।`द्व्यहमुपोध्य`इति। `वस निवासे`(धातुपाठः-1942), वच्यादिना 6|1|15 सम्प्रसारणम्, क्त्वो ल्यबादेशः `शासिवसिघसीनाञ्च` 8|3|60 इति षत्वम्। अत्रोपवसने भुजिक्रियाव्यवधायके वसिर्वत्र्तते। अत्र `अस्यतितृषोः`इति यदि नोच्येत तदेहापि स्यात्। `न गतिव्र्यवधीयते` इति। यथा मलोदाहरणेऽत्यसनेन तर्षणेन च मध्यवर्त्तिना पानक्रिया व्यवधीयते, न तथेह गतिः। तत्र चाहञ्छब्दातृ `कालाध्वनोरत्यन्तसंयोगे` 2|3|5 इति द्वितीया। सकलस्याह्न इष्वत्यसनेन व्याप्तत्वादिषुशब्दात् कर्मण्येव। `योजनमत्यस्य गाः पाययति` इति। अत्राध्ववाच्युपपदम्। क्वचित् रुआउध्नादौ पाययित्वा योजनमतिक्रम्य पाययतीत्यर्थः। `अध्वकर्मकम्`, `न कालकर्मकम्िति द्वावपि बहुव्रीही॥
ठसु क्षेपणेऽ, ठ्ञितृषा पिपासायाम्ऽ । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दातत्करोतीति णिचि ठ्कर्मण्यण्ऽ । पाययतीति । पिबतेर्णिचि ठ्शाच्छासाह्वाऽ इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह---अद्य पाययित्वेत्यादि । द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति । ठ्कालाध्वनोःऽ इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ॥
सिद्धान्तकौमुदी
क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!