॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|37
SK 3358
3|4|37
करणे हनः   🔊
SK 3358
सूत्रच्छेद:
करणे - सप्तम्येकवचनम् , हनः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
करणे उपपदे हन्तेर् धातोः णमुल् प्रत्ययो भवति। पाणिघातं वेदिं हन्ति। पादघातं भूमिं हन्ति। हिंसार्थानां च समानकर्मकाणाम् 3|4|48। इति णमुलं वक्ष्यति। अहिंसार्थो ऽयम् आरम्भः। नित्यसमासार्थो वा यथा विध्यनुपर्योगार्थश्च। पूर्वविप्रतिषेधेन हन्तेः हिंसार्थस्य अपि प्रत्ययो ऽनेन एव इष्यते। असिघातं हन्ति। शरघातं हन्ति।
`अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् `हिंसार्थानाम्` 3|4|48 इति वक्ष्यमाणेन सिद्धत्वा। `नित्यसमासार्थः` इति। हिंसार्थस्यापीति शेषः। `उपपदमतिङ्` 2|2|19 इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति `तृतीयाप्रभृतीन्यन्यतरस्याम्` 2|2|21 इति विकल्पेन स्यात्। `यथाविध्यनुप्रयोगार्थश्च` इति। `कषादिषु यथाविध्यनुप्रयोगः` 3|4|46 इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्, तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते? इत्यत आह-- `पूर्वविप्रतिषेधेन` इत्यादि॥
नित्यसमासार्थं चेति । ठ्हिसार्थानाम्ऽ इत्यनेन णमुलि ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः । कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः, ठ्हिंसार्थानाम्ऽ इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह--पूर्वविप्रतिषेधेनेति । कथं तर्हि ठ्हिंसार्थानाम्ऽ इत्यत्रोदाहरिष्यते---दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः---यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः; ठ्कषादिषु यथाविध्यनुप्रयोगःऽ इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः । इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च (कौमुदी-3369) इति वक्ष्यते ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
करणे हनः (1198) (600 णमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.12) - हनः करणेऽनर्थकं वचनं हिंसार्थेभ्यो णमुल्विधानात्- (भाष्यम्) हनः करणे वचनमनर्थकम्। किं कारणम्?। हिंसार्थेभ्यो णमुल्विधानात्। हिंसार्थेभ्यो णमुल्विधीयते। तेनैव सिद्धम्।। (5045 आक्षेपबाधकवार्तिकम्।। 2।।) - अर्थवत्त्वाहिंसार्थस्य विधानात्- (भाष्यम्) अर्थवत्तु हन्तेर्णमुल्वचनम्। कोर्थः?। अहिंसार्थस्य विधानात्। अहिंसार्थस्य हन्तेर्णमुल् यथा स्यात्।। (आक्षेपभाष्यम्) अस्ति पुनरयं क्वचिद्वन्तिरहिंसार्थः यदर्थोविधिः स्यात्।। (समाधानभाष्यम्) अस्तीत्याह। पाण्युपघातं वेदिं हन्ति।। (5046 प्रत्योजनान्तरवार्तिकम्।। 3।।) ?B- नित्यसमासार्थं च- (भाष्यम्) नित्यसमासार्थस्च हिंसार्थादपि हन्तेरनेन विधिरेषितव्यः। (आक्षेपभाष्यम्) कथं पुनरिच्छतापि हिंसार्थाद्धन्तेरनेन विधिर्लभ्यः। अनेनास्तु तेन वेति तेन स्याद्विप्रतिषेधेन।। (समाधानभाष्यम्) हन्तेः पूर्वविप्रतिषेधो वार्तिकेनैव ज्ञापितः। यदयं नित्यसमासार्थे चेत्याह। तज् ज्ञापयत्याचार्यः ‐ ‐ हिंसार्थादपि हन्तेरनेन विधिर्भवतीति।। करणे इनः।। 37 ।।