॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|3
SK 2826
3|4|3
समुच्चयेऽन्यतरस्याम्   🔊
SK 2826
सूत्रच्छेद:
समुच्चये - सप्तम्येकवचनम् , अन्यतरस्याम् - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनेकक्रियाध्याहारः समुच्चयः। समुच्चीयमानक्रियावचनाद् धातोरन्यतरस्यां लोट् प्रत्ययो भवति, तस्य लोटो हिस्वौ आदेशौ भवतः। तध्वंभाविनस्तु वा भवतः। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानम् अट इत्येव अयम् अटति, इमावटतः, इमे ऽटन्ति। भ्राष्ट्रमट, मठमट, खदूरम् अट, स्थाल्यपिधानम् अट इत्येव त्वम् अटसि, युवाम् अटथः, यूयम् अटथ। अथ वा, भ्राष्ट्रम् अटत, मठम् अटत, खदूरम् अटत, स्थाल्युपिधानम् अटत इत्येव यूयम् अटथ। भ्राष्ट्रम् अट, मठम् अट, खदूरम् अट, स्थाल्युपिधानम् अट इत्येव अहम् अटामि, आवाम् अटावः, वयम् अटामः। अथ वा, भ्राष्ट्रम् अटति, मठम् अटति, खदूरम् अटति, स्थाल्युपिधानम् अटति इत्येव अयम् अटति, इमा वटतः, इमे ऽटन्ति। भ्राष्ट्रम् अटसि, मठम् अटसि, खदूरम् अटसि, स्थाल्युपिधानम् अटसि, इत्येव त्वम् अटसि, युवाम् अटथः, यूयम् अटथ। भ्राष्ट्रम् अटामि, मठम् अटामि, खदूरम् अटामि, स्थाल्युपिधानम् अटामि इत्येव अहम् अटामि, आवाम् अटावः, वयम् अटाअमः। छन्दो ऽधीष्व, व्याकरणम् अधीष्व, निरुक्तम् अधीष्व इत्येव अयम् अधीते, इमावधीयाते, इमे ऽधीयते। छन्दो ऽधीष्व, व्याकरणम् अधीध्वम् इत्येव यूयम् अधीध्वे। छन्दो ऽधीष्व, व्याकरणम् अधीष्व, निरुक्तम् अधीष्व इत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे। अथ वा, छन्दो ऽधीते, व्याकरणम् अधीते, निरुक्तमधीते, इत्येव अयम् अधीते, इमावधीयाते, इमे ऽधीयते। छन्दो ऽधीषे, व्याकरणम् अधीषे, निरुक्तम् अधीषे इत्येव त्वम् अधीषे, युवाम् अधीयाथे, यूयम् अधीध्वे। छन्दो ऽधीये, व्याकरणम् अधीये, निरुक्तम् अधीये इत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे।
`अनेकक्रियाध्याहारः` इति। अनेकासां क्रियाणां चीयमानतेत्यर्थः। एतेन समभिहारात् समुच्चयस्य भेदं दर्शयति। समभिहारोऽपि पौनःपुन्यम्, भृशार्थो वा, स चैकस्या एव क्रियायाः सम्भवः। समुच्चयः पुनरनेकासां क्रियाणाम्।`भाष्ट्रमट`इति। `अतो हेः` 6|4|105 इति लुक्। अत्र साधनभेदाद्भेदमुपागतानामनकासामटनक्रियाणां समुच्चयः।`अथ वा` इत्यादि। प्रथमेनाथ वेतिग्रहणेन `वा च तध्वमोः` 3|4|2 इति वाग्रहणप्रतिपादितं विकल्पं दर्शयति, द्वितीयेनान्यतरस्यां 3|4|3 ग्रहणप्रतिपादितम्॥
ठ्समुच्चयेऽ इति समान्योक्तावपि क्रियासमुच्चय एव दृश्यते, धातोः प्रत्ययविधानादित्याह---अनेकाक्रयाध्याहारः समुच्चय इति । अनेकासां क्रियाणामेकस्मिन् सम्बन्धिनि निचीयमानतेत्यर्थः । एतेनैकक्रियाविषयात्समभिहारात्समुच्चयस्य भेदो दर्शितः । धातोः क्रियावाचित्वात्क्रियाधर्मे समुच्चयमात्रे वृत्तिर्न भवतीत्यभिप्रायेणाह---समुच्चीयमानक्रियावचनादिति । एकस्मिन्साधने याः क्रियाः समुच्चीयन्ते तद्वाचिभ्यो धातुभ्यः प्रत्य इत्यर्थः । भ्राष्ट्रमटेत्यादि । भ्राष्ट्राटनादीनि करोतीत्यर्थः । तत्रानुप्रयुज्यमानो धातुः साधनभेदेन भिन्नेष्वटनेष्वनुवर्तमानं कृतिव्यापारं वद्Äअस्तद्गतानि साधनादीनि प्रिकाशयतीति परस्परसम्बन्धः । भ्राष्ट्रमुचुल्लि, खस्य दूरं खदूरमुअपवरकम्, स्थाल्यः प्रक्षालिता यत्र निधाय पिधीयन्ते तत्स्थाल्यपिधानम् । अथ वेति । प्रथमेनाथवाशब्देन ठ्वा च तध्वमोःऽ इत्यस्य व्यापारं दर्शयति, द्वितीयेनान्यतरस्याङ्ग्रहणस्य । एवं द्वितीयेऽप्युदाहरणे द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥
समुच्चयेऽन्यतरस्याम् - समुच्चये । समभिहार इति पदरहितंक्रिया, लोट् लोटौ हिस्वौ वा च तध्मो॑रिति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्तं समुच्चय इत्यत्रान्वेति । तदाह — अनेकक्रियासमुच्चये द्योत्ये इति । एवं च कारकसमुच्चयमाश्रित्य नाऽस्य प्रवृत्तिः । प्रागुक्तमिति । धातोर्लोट्, तस्य हिस्वौ प्रसिद्धहिस्वधर्मकौ तध्मोर्विषये वा इत्युक्तमित्यर्थः । यथाविध्यनुप्रयोगः । "क्रियासमभिहारे" इति,समुच्चयेऽन्यतरस्या॑मिति च लोड्विधी उक्तौ, तयोर्मध्ये यत्पूर्वसूत्रं "क्रियासमभिहारे" इति, तदेतत्पूर्वशब्देन परामृश्यते । तदाह — - आद्ये लोड्विधाते इति । विधिमनतिक्रम्य यथाविधि । यस्याः प्रकृतेर्लोडविहितस्तस्या अनुप्रयोग इति लभ्यते । तदाह — लोट्प्रकृतिभूत एवेति । अत्राऽनुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विवक्षितम्, लुनीहिलुनीहीत्येवायं लुनाती॑ति भाष्यप्रोगाल्लिङ्गात् ।
समुच्चयेऽन्यतरस्याम् - समुच्चये । चिनोतेर्भावेएरच् इत्यच् । प्रगुक्तमिति । धातोर्लोट्, लोटो हिस्वौ तध्वमोर्विषये वेत्यर्थः । यथाविध्यनु ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!