॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|16
SK 3443
3|4|16
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्   🔊
SK 3443
सूत्रच्छेद:
भावलक्षणे - सप्तम्येकवचनम् , स्था-इण्-कृञ्-वदि-चरि-हु-तमि-जनिभ्यः - पञ्चमीबहुवचनम् , तोसुन् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कृत्यार्थे इति निवृत्तम्। तुमर्थे इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यः छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आसंस्थातोर्वेद्यां शेरते। आ समाप्तेः सीदन्ति इत्यर्थः। इण् पुरा सूर्यस्तोदेतोराधेयः। कृञ् पुरा वत्सानामपाकर्तोः। वदि पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि पुरा प्रचरितोराग्नीध्रीये होतव्यम्। हु आहोतोरप्रमत्तस्तिष्थति। तमि आ तमितोरासीत। जनि काममा विजनितोः सम्भवामेति इति।
`आसंस्थातोः` इत्यादि। आसंस्थातोः शब्देन समाप्तिरुच्यते, वेद्यां सदनं लक्ष्यते। `पुरा सूर्यस्योदेतोराधेयः` इति। अत्राप्याधानक्रिया सूर्यस्योदयेन। `पुरा वत्सानाम्` त्यादौ वत्सानामपाकरणेनासनम्। `पुरा प्रवदितोः` इत्यादौ प्रवदनेन हवनम्। `पुरा प्रचरितोः` इत्यादौ प्रचरणेन हवनमेव। उत्तरयोरुदाहरणयोराहवनेनासम्भवनम्॥
संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति । ठ्तमु ग्लानौऽ ॥
सिद्धान्तकौमुदी
आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!