Page loading... Please wait.
3|4|115 - लिट् च
॥ तस्मै पाणिनये नम: ॥
3|4|115
SK 2172
लिट् च  
सूत्रच्छेद:
लिट् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
आर्धधातुकम्  [3|4|114] - प्रथमैकवचनम् , तिङ्  [3|4|113] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
लिट् च तिङ् आर्धधातुकम्
सूत्रार्थ:
लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।
तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिट्-लकारस्य विषये तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।

अस्य प्रयोगः यत्र दृश्यते तस्य कानिचन उदाहरणानि एतानि -

1. अस्तेर्भूः 2|4|52 इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुम् अर्हति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः सन्ति, अतः लिट्-लकारस्य विषये अस्य सूत्रस्य प्रयोगं भवितुम् अर्हति । अतः अस्-धातोः लिट्-लकारस्य रूपाणि "बभूव बभूवतुः बभूवुः" एतादृशानि भवन्ति ।

2. पठ्-धातोः लिट्लकारस्य मध्यमपुरुषैकवचनम् "पेठिथ" इति भवति । लिट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रत्ययः "थल्" इति वलादि-आर्धधातुकः अस्ति, अतः पठ्-धातोः अस्मिन् प्रत्यये परे आर्धधातुकस्य इड्वलादेः 7|2|35 इत्यनेन इडागमः भवितुम् अर्हति ।

3. कर्तरि शप् 3|1|68 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - "गम्" धातोः लिट्लकारस्य प्रथमपुरुषैकवचनम् "जगाम" इत्यत्र गम्-धातोः "गच्छ्" आदेशः न भवति, यतः अयम् आदेशः इषुगमियमां छः 7|3|77 इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।
One-line meaning in English
The तिङ्-प्रत्ययs of the लिट्-लकार get the term आर्धधातुक.
काशिकावृत्तिः
लिडादेशः तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु च एकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यम् एतत्। इह तु एवकारो ऽनुवर्तते, स नियमं करिस्यति।
`शेकिथ` इति। आर्धधातुकत्वाल्लिटः `ऋतो भारद्वाजस्य` 7|2|63 इतीट्। तत्र ऋत एव भारद्वाजस्य नान्येषां धातूनामित्येषोऽर्थोऽभिमतः। `थलि च सेटि` 6|4|121 इत्येत्वाभ्यासलोपौ। `जग्ले, मम्ले` इति। आर्धधातुकत्वात् `आतो लोप इटि च` 6|4|64 इत्याकारलोपः।`ननु च ` इत्यादिना यदुक्तं `सार्वधातुकसंज्ञाया अपवादः` (का।3.4.115) इति तद्विघटयति। एकसंज्ञाधिकारादन्यत्र समावेशो भवति, यथा-- त्ययादिसंज्ञानाम्। न चात्रैकसंज्ञाधिकारोऽस्ति,तदयुक्तमस्याः सार्वधातुकसंज्ञाया अपवादत्वमित्यभिप्रायः।`सत्यमेतत्ित्यादिना अपवादत्वमेव समर्थयते॥
पेचिथ, शेकिथेति । ठृतो भारद्वाजस्यऽ इति नियमादिट्, ठ्थलि चऽ सेटिऽ इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् ठातो लोप इटि चऽ इत्याकारलोपः । यदुक्तम्---सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति---ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ॥
सिद्धान्तकौमुदी
लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥
लिट् च - लिट् च ।लि॑डिति लुप्तस्थानषष्ठन्तम् ।तिङ्शित्सार्वधातुक॑मित्यस्मात्तिङित्यनुवर्तते । "आद्र्धधातुकं शेष" इत्यस्माद्र्धधातुकमिति । तदाह — लिडादेशस्तिङिति । एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह — आद्र्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्यैवे॑ति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः ।
लिट् च - आद्र्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्ये॑ति सूत्रादेवकारोऽनुवर्तत इति भावः ।
लघुसिद्धान्तकौमुदी
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!