॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|105
SK 2256
3|4|105
झस्य रन्   🔊
SK 2256
सूत्रच्छेद:
झस्य - षष्ठ्येकवचनम् , रन् - प्रथमैकवचनम्
अनुवृत्ति:
लिङः  [3|4|102] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लिङ: झस्य रन्
सूत्रार्थ:
लिङ्लकारस्य "झ" प्रत्ययस्य रन्-आदेशः भवति ।
लिङ्-लकारस्य विषये आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य "झ" प्रत्ययस्य रन्-आदेशः भवति । अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा -

1) लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -
लभ् + लिङ् [विधिनिमन्त्रणा.. 3|3|161 इति लिङ्]
→ लभ् + शप् + लिङ् [कर्तरि शप् 3|1|68 इति शप्]
→ लभ् + अ + झ [तिप्तस्.. 3|4|78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् "झ" प्रत्ययः ]
→ लभ् + अ + सीयुट् + झ [लिङस्सीयुट् 3|4|102 इति सीयुट्-आगमः]
→ लभ् + अ + ईय् + झ [लिङःसलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ लभ् + अ + ईय् + रन् [झस्य रन् 3|4|105 इति झकारस्य रन्-आदेशः]
→ लभ् + अ + ई + रन् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ लभेरन् [आद्गुणः 6|1|87 इति गुण-एकादेशः]

2) लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
लभ् + लिङ् [आशिषि लिङ्लोटौ 3|3|173 इति लिङ्लकारः]
→ लभ् + झ [तिप्तस्.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः।]
→ लभ् + सीयुट् + झ [लिङस्सीयुट् 3|4|102 इति सीयुट्-आगमः]
→ लभ् + सीय् + रन् [झस्य रन् 3|4|105 इति झकारस्य रन्-आदेशः]
→ लभ् + सी + रन् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ लप् + सी + रन् [खरि च 8|4|55 इति चर्त्वम्]
→ लप्सीरन्
One-line meaning in English
The झ-प्रत्यय of लिङ्लकार is converted to रन्.
काशिकावृत्तिः
लिङः इत्येव। झस्य लिङादेशस्य रनित्ययम् आदेशो भवति। झो ऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्।
`कृषीरन्` इति। आशिषि लिङ्॥
झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव ठ्झःऽ इत्येव ब्रूयादिति मन्यमान आह---लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः । ठ्झोऽन्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा---कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥
सिद्धान्तकौमुदी
लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!