॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|102
SK 2255
3|4|102
लिङस्सीयुट्   🔊
SK 2255
सूत्रच्छेद:
लिङः - षष्ठ्येकवचनम् , सीयुट् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लिङ: सीयुट्
सूत्रार्थ:
लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति ।
अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् "सीयुट्" आगमः विधीयते । वस्तुतः अयम् आगमः सर्वेषाम् अष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलम् आत्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः "सीय्" इत्येव अवशिष्यते ।

1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -
लभ् + लिङ् [आशिषि लिङ्लोटौ 3|3|173 इति लिङ्लकारः]
→ लभ् + त [तिप्तस्.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। लिङ्गाशिषि 3|4|116 इत्यनेन अयम् आर्धधातुकसंज्ञकः भवति]
→ लभ् सीयुट् + त [लिङस्सीयुट् 3|4|102 इति सीयुट् आगमः]
→ लभ् + सीय् + सुट् + त् [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ लभ् + सी + स् + त [यकारस्य लोपो व्योर्वलि 6|1|66 इति लोपः]
→ लभ्सीष्त [आदेशप्रत्यययोः 8|3|59 इति सुट्-आगमस्य सकारस्य षत्वम्]
→ लभ्सीष्ट [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ लप्सीष्ट [खरि च 8|4|55 इति चर्त्वम्]

2. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -
लभ् + लिङ् [विधिनिमन्त्रणा.. 3|3|161 इति लिङ्लकारः]
→ लभ् + त [तिप्तस्.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ लभ् + शप् + त [कर्तरि शप् 3|1|68 इति शप्]
→ लभ् + अ + सीयुट् + त [लिङस्सीयुट् 3|4|102 इति सीयुट् आगमः]
→ लभ् + अ + सीय् + सुट् + त [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ लभ् + अ + ईय् + त [लिङःसलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ लभ् + अ + ई + त [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ लभेत [आद्गुणः 6|1|87 इति गुणः]
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लिङादेशानाम् सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्।
`पचेत्` इत्यादौ `विधिनिमन्त्रण` 3|3|161 इत्यादिना लिङ, `लिङ सलोपोऽनन्तस्य` 7|2|79 इति सकारलोपः, शपा सह `आद्गुणः` 6|1|84 वलि लोपः। `पक्षीष्ट` इत्यादौ आशिषि लिङ, चकारस्य `चोः कुः` 8|2|30 इति कुत्वम्, `इण्कोः` 8|3|57 इति षत्वम्॥
लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके ठ्लिङ्ः सलोपोऽन्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥
सिद्धान्तकौमुदी
सलोपः । एधेत । एधेयाताम् ॥
लिङस्सीयुट् - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।
लिङस्सीयुट् - सलोप इति ।लिङः सलोपोऽनन्त्यस्ये॑त्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः ।
लघुसिद्धान्तकौमुदी
सलोपः। एधेत। एधेयाताम्॥
महाभाष्यम्
लिङः सीयुट् (1263) (614 आगमविधिसूत्रम्।। 3 । 4 । 1 । आ.26) (5080 आक्षेपवार्तिकम्।। 1 ।।) - यासुडादेः सीयुट् प्रतिषेधः- (भाष्यम्) यासुडादेः सीयुटः प्रतिषेधो वक्तव्यः। चिनुयुः। सुनुयुः। लिङः सीयुट् इति सीयुट् प्राप्नोति।। (5081 आक्षेपपरिहारवार्तिकम्।। 2 ।।) - न वा वाक्यापकर्षात्- (भाष्यम्) न वा वाक्तव्यः। किं कारणम्?। वाक्यापकर्षात्। वाक्यापकर्षाद् यासुट् सीयुटं बाधिष्यते। (5082 वार्तिकम्।। 3 ।।) - सुट्तिथोस्त्वपकर्षविज्ञानम्- (भाष्यम्) सुटोपीदानीं तिथोरपकर्षो विज्ञायेत। कृषीष्ट। कृषीष्टः। हृषीष्ट। हृषीष्ठाः। (5083 आक्षेपवार्तिकम्।। 4 ।।) - अनादेश्च सुड्वचनम्- (भाष्यम्) अनादेश्च सुड्वक्तव्यः। कृषीयास्तां कृषीयास्थाम्। तकारथकारादेर्लिङ इति सुण् न प्राप्नोति। (5084 आक्षेपपरिहारवार्तिकम्।। 5 ।।) - न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। तिथोः प्रधानभावात्। तिथावत्र प्रधानं तयोर्विशेषणं लिङ्ग्रहणम्। नैवं विज्ञायते। तकारथकारादेर्लिङ इति। कथं तंर्हि? तकारथकारयोः सुड् भवति। तौ चेल्लिङ इति।। लिङः सीयुट्।। 102 ।।