॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|88
SK 3266
3|3|88
ड्वितः क्त्रिः   🔊
SK 3266
सूत्रच्छेद:
ड्वितः - पञ्चम्येकवचनम् , क्त्रिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भावे ऽकर्तरि च कारके इति वर्तते। डु इत् यस्य तस्माद् ड्वितो धातोः क्त्रिः प्रत्ययो भवति। त्रेर्मम् नित्यम् 4|4|20 इति वचनात् केवलो न प्रयुज्यते। डुपचष् पाके पक्त्रिमम्। डुवप् बीजसन्ताने उप्त्रिमम्। डुकृञ् कृत्रिमम्।
`उप्त्रिमम्` इति। `वचिस्वपि` 6|1|15 इत्यादिना सम्प्रसारणम्। क्त्रेः ककारो गुणप्रतिषेधार्थः॥
भावेऽकर्तरि च कारके इति वर्तत इति । अधिकारस्याविच्छेदं दर्शयति । अयं तु क्त्रिप्रत्ययः स्वभावाद्भाव एव भवति---पाकेन निर्वृतं पक्त्रिममित्युच्यते, न तु पक्वेनेति । केवलो न प्रयुज्यत इति । तेनावश्यमन्यशब्देनैव विग्रहः कर्तव्यः । तद्दर्शयति---पाकेन निर्वृतं पक्त्रिममिति । उप्त्रिममिति । यजादित्वात्सम्प्रसारणम् । अथ ड्विनः क्त्रिममित्येव कस्मान्नोक्तम्, एवं हि ठ्क्त्रेर्मम् नित्यम्ऽ इति न वक्तव्यं भवति ? नैवं शक्यम्, ठ्भावेऽ इत्यधिकाराद्भावेऽपि कृत्रिममिति प्राप्नोति । अथाप्यभयानुवृतावप्यभिधानस्वाभाव्यात्कारक एव कर्मणि भवेत् ? एवमपि भूतकालो न गम्येत । एतदप्यभिधानस्वाभाव्याद्भवतु नाम ? एवमर्थाभिधाने प्रकारभेदो न स्यात्, न हि पक्वपक्त्रिमशब्दयोः पर्यायतां मन्यन्ते ॥
सिद्धान्तकौमुदी
अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् (कौमुदी-1570) नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ड्वितः क्त्रिः - ड्वितः । अयमिति । अतएव पाकेन निर्वृतमिति विगृह्रते न तु पक्वेनेति । यत्तु प्राचोक्तंभावादा॑विति, तन्नेति भावः । क्रेर्मप् । तद्धितेषु व्याख्यातमिदम् । नित्यग्रहणादिति । तत्र हि नित्यमिति योगो विभज्यते तत्सामथ्र्यादर्थविशेषानादरेणैव मब्विषयत्वं निर्णीयते । एकयोगत्वे तु निर्वृत इत्यधिकारान्निर्वृत्तार्थस्याऽविवक्षायां स्वातन्त्र्यं प्रसज्येत, ततश्च मपं विनापि पक्रिरिति प्रयोगः स्यादिति भावः । उप्त्रिममिति । वपेर्यजादित्वात्किति संप्रसारणम् । वापेन निर्वृत्तमित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!