॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|83
SK 3260
3|3|83
स्तम्बे क च   🔊
SK 3260
सूत्रच्छेद:
स्तम्बे - सप्तम्येकवचनम् , क (लुप्तप्रथमान्तनिर्देश:) च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
करणे हनः इति वर्तते। स्तम्बशब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति। चकारातप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते। करणे इत्येव, स्तम्बघातः।
`तत्र च` इति। अनन्तरोक्तेऽपि। `घनादेशः`इति। `मूर्त्तौ घनः` 3|3|77 इत्यतः `घनः` इत्यतस्यानुवृत्तेः। `स्तम्बघ्नः`इति। पूर्ववत् कुत्वोपधालोपौ॥
तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः, ठ्गमहनऽ इत्युपधालोपः, ठ्हो हन्तेःऽ इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात् ठ्कृत्यल्युटो बहुलम्ऽ इति वचनाद्वा लभ्यते अन्ये पुनः ठूतियूतिजूतिसातिहेतिऽ इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु ठ्करणाधिकरणयोश्चऽ इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा---रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ॥
सिद्धान्तकौमुदी
स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्तम्बे क च (1058) (553 हनेः कप्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.22) (आक्षेपभाष्यम्) कस्मादयं को विधीयते। (समाधानभाष्यम्) हन्तेरित्याह। (प्रश्नभाष्यम्) तद्धन्तिग्रहणं कर्तव्यम्? (समाधानभाष्यम्) न कर्तव्यम्? प्रकृतमनुवर्तते। क्व प्रकृतम्? हनश्च वधः इति। (समाधानबाधकभाष्यम्) तद्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम्। (समाधानसाधकभाष्यम्) यद्यादेशाः। घनस्वरो न सिध्यति ‐ ‐ घनः इति। (निपातनाङ्गीकारभाष्यम्) सन्तु तर्हि निपातनानि। (दूषणस्मारणभाष्यम्) ननु चोक्तम् तद्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुमिति। (दूषणोद्धारभाष्यम्) संबन्धमनुवर्तिष्यते। (आदेशपक्षस्वीकारभाष्यम्) अथ वा पुनः सन्तु आदेशाः।। (दूषणस्मारणभाष्यम्) ननु चोक्तम् स्वरो न सिध्यतीति। (दूषणस्मारणभाष्यम्) नैष दोषः। अकारान्ता आदेशाः।। अकारान्ता इति। (आक्षेपभाष्यम्) अथ यदा इषीकया स्तम्बो हन्यते कथं तत्र भवितव्यम्।। (समाधानभाष्यम्) केचित्तावदाहुः ‐ ‐ स्तम्बघ्नेति भवितव्यम्।।