Page loading... Please wait.
3|3|48 - नौ वृ धान्ये
॥ तस्मै पाणिनये नमः ॥
3|3|48
SK 3223
नौ वृ धान्ये   🔊
सूत्रच्छेदः
नौ (सप्तम्येकवचनम्) , वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्दे उपपदे वृ इत्येतस्माद् धातोः धान्यविशेषे ऽभिधेये घञ् प्रत्ययो भवति। अपो ऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्ये इति किम्? निवरा कन्या।
`अपोऽपवादः`इति। `ग्रहवृदृ` 3|3|58 इत्यादिना प्राप्तस्य। `नीवारा नाम व्रीहयो भवन्ति` इति। एतेन यद्यपि धान्यशब्देन सामान्यवाचिनायं व्युत्पाद्यते, तथापि प्रत्ययान्तं शब्दशक्तिस्वाभाव्याद्धान्यविशेष ए वत्र्तत इति दर्शयति। `उपसर्गस्यघञि` 6|3|121 इति दीर्घत्वम्।`निवरा` इति। निव्रियत इति निवरा। स्वभावेनाबन्तमपि स्त्रियां वत्र्तते। एवञ्च यद् घञबन्तो घाजन्तश्चेति लिङ्गाधिकारेऽबन्तस्य पुंल्लिङ्गताप्रतिपादनं तत् प्रायिकं वेदितव्यम्॥
नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति । ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति वचनात् ? सत्यम्; ठ्कृत्यल्युटो बहुलम्ऽ इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च ठ्घञजबन्ताः पुंसिऽ इति प्रायिकं द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा सेतिवत् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.