Page loading... Please wait.
3|3|44 - अभिविधौ भाव इनुण्
॥ तस्मै पाणिनये नमः ॥
3|3|44
SK 3218
अभिविधौ भाव इनुण्   🔊
सूत्रच्छेदः
अभिविधौ (सप्तम्येकवचनम्) , भावे (सप्तम्येकवचनम्) , इनुण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः। अभिविधौ गम्यमाने धातोः भवे इनुण् भवति। साङ्कूटिनम्। सांराविणम्। सान्द्राविणं वर्तते। अभिविधौ इति किम्? सङ्कोटः। सन्द्रावः। संरावः। भावे इति वर्तमने पुनर् भावग्रहणं वासरूपनिरासार्थम्, तेन घञ् न भवति। ल्युटा तु समावेश इष्यते। सङ्कूटनं वर्तते। तत् कथम्? कृत्यल्युटो बहुलम् 3|3|113 इति।
`सांकूटिनम्` इति। `कूट {परितापे (परिदाहे इत्यन्ये)-धातुपाठः-} (धातुपाठः-1890), `अणिनुणः` 5|4|15 इतीनुमन्तात् स्वार्थिकोऽण्। `इनण्यनपत्ये` 6|4|164 इति प्रकृतिभावात् `नस्तद्धिते` 6|4|144 इति टिलोपो न भवति।`संरावः` इति। `उपसर्गे रुवः 3|3|22 इति घञ्। `संद्रावः` इति। अत्रापि `समि युद्रुदुवः` 3|3|23 इति। ननु च भाव इति वत्र्तत एव, तत्किमर्थं पुनस्तद्ग्रहमित्याह-- `भावे` इति। `वत्र्तमाने` इत्यादि। भावग्रहणमिहातिरिच्यते, तदितरिच्यमानं वासरूपनिरासार्थं विज्ञायते। तेन क्तेन सहेनुणः समावेशो न भवति। ननु च कारक इत्यपि वत्र्तते, ततस्तन्निवृत्त्यर्थं भावग्रहणं कस्मान्न भवति? एवं मन्यते-- भावे कारक इति द्वये प्रकृतेऽपि प्रयोगदर्शनवशाद्वयवस्था भवति, यथा णचः। स हि द्वथेऽपि प्रकृते लक्ष्यदर्शनानुरोधात् पुनग्र्रहमन्तरेणापि यथा भाव एव विज्ञायते, न कराके, तथात्रेनुणपि भाव एव विज्ञास्यते। तस्माद्वासरूपविधिनिरासार्थमेव पुनर्भावग्रहणं युक्तमिति। यद्येवम्, तर्हि, यथा घञेनुणः समावेशो न भवति तथा ल्युटापि न स्यादित्यत आह-- `ल्युटा तु` इत्यादि। गतार्थम्। इनुणो णकारो वृद्ध्यर्थः। उकार उच्चारणार्थः॥
क्रियागुणाभ्यामिति । अभिविधिस्वरूपकथनमेतत्, इह तु धातोः प्रत्ययविधानात्क्रियाविषय एवाभिविधिर्गृह्यते । सांकूटिनमिति । ठ्कूट दाहेऽ दीर्घोपधादिनुण्, ठणिनुणःऽ इतीनुणन्तात्स्वाथिकोऽण् प्रत्ययः, स च पूर्ववत्सगतिकारकाद्भवति, ठिनण्यनपत्येऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपाभावः । समन्ताद्दाह इत्यर्थः संशब्दोऽभिविधिद्योतकः । सांराविणमिति । ठुपसर्गे रुवःऽ इति घञ् उपसर्गान्तरेऽनभिवैधौ चरितार्थः । संराव इति । अत्र संशब्दः पूजायाम् । क्वचित्सन्द्राव इति प्रत्युदाहणं पठ।ल्ते, तदयुक्तम्; ठ्समियुद्रुदुवःऽ इत्यस्यानवकाशात् । ननु च ठ्भावे कारकेऽ इति द्वयेऽपि प्रकृते शब्दस्वाभाव्यात्पूर्ववत्कारके न भविष्यति, तत् कि भावग्रहणेन ? तत्राह---भाव इति वर्तमान इति । तेन घञ्, ठ्नपुंसके भावे क्तःऽ इति क्तश्च न भवति । ल्युटा त्वित्यादि । गतार्थम् । स्वभावतश्चेदमिनुणन्तं नपुंसकलिङ्गम् ॥
सिद्धान्तकौमुदी
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
अभिविधौ भाव इनुण् - अभिविधौ । अभिविधौ किम् । संरावः । वासरूपेण घञ् क्तश्च न भवति, पुनर्भावग्रहणात् । नच कर्तृभिन्नकारकनिवृत्तये भावग्रहममिति वाच्यं, पूर्वसूत्र इव शक्तिस्वाभाव्यादेवेनुणोऽप्रवृत्तेः । ल्युटा तु समावेश इष्यते — संरवणमिति । तच्च बाहुलकाल्लभ्यत इत्याकरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अभिविधौ भाव इनुण् (1019) (550 इनुण्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.19) (आक्षेपभाष्यम्) भावग्रहणं किमर्थम्?। (4030 समाधानवार्तिकम्।। 1 ।।) - अभिविधौ भावग्रहणं नपुंसके क्तादिनिवृत्त्यर्थम् - (भाष्यम्) अभिविधौ भावग्रहणं क्रियते नपुंसके क्तादिनिवृत्त्यर्थम्। नुपंसकलिङ्गे भावे क्तादयो मा भूवन्निति। (आक्षेपभाष्यम्) अथ किमर्थं पृथग्ग्रहणं क्रियते। (4031 वार्तिकशेषः ।। 2 ।।) - पृथग्ग्रहणं बाधकबाधनार्थम् - (भाष्यम्) पृथग्ग्रहणं क्रियते बाधकबाधनार्थम्। ये तस्य बाधकास्तद्बाधनार्थम्।। (4032 वार्तिकशेषः।। 2 ।।) - न तु ल्युटः- (भाष्यम्) ल्युटो बाधनं नेष्यते, संकूटनमित्येव भवति।। अभिविधौ।। 44 ।।