Page loading... Please wait.
3|3|34 - छन्दोनाम्नि च
॥ तस्मै पाणिनये नमः ॥
3|3|34
SK 3205
छन्दोनाम्नि च   🔊
सूत्रच्छेदः
छन्दोनाम्नि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वौ स्त्रः इति वर्तते। विपूर्वात् स्तृनातेः छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तम् अत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्रह्मणम् , नामग्रहणात्। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दो ऽत्र छन्दोनाम, न घञनतं शब्दरूपम्। तत्र त्ववयवत्वेन तद् वर्तते। छन्दोनाम्नि इत्यधिकरणसप्तम्येषा।
छन्दःशब्दोऽयमस्त्येव मन्त्रब्राआहृणे, अस्त्यन्यदक्षराणामित्ताविशिष्टवृत्ते यस्य गायत्र्यादयो विशेषाः। तदिह कतरस्तदर्थो गृह्रते? इत्याह-- `वृत्तम्` इत्यादि। अत्रैवोपपत्तिमाह-- `नामग्रहणात्` इति। यद्यत्र मन्त्रब्राआहृणमिष्टं स्यान्नामग्रहणं न कुर्यात्, छन्दसीत्येव ब्राऊयात्। एवमपि ह्रुच्यमाने मन्त्रब्राआहृणग्रहणं लभ्यत एव, यथा-- `बहुलं छन्दसि` 2|4|39 इत्यादौ वाक्ये। तस्मन्नामग्रहणाव्वृत्तमिह च्छन्दो गृह्रते। `विष्टारपङ्क्तिः` इति। `छन्दोनाम्नि च` 8|3|94 इति षत्वम्। विष्टारशब्द एवात्र घञन्तश्छन्दोनामेति कस्यचिद्भ्रान्तिः स्यात्, तन्निराकरणायाह-- `विष्टारपङ्क्तिशब्दोऽत्र` इत्यादि। तत्र = विष्टारपङ्क्तिशब्दे। `अवयवत्वेन वत्र्तते`इति। घञन्तं शब्दरूपमिति सम्बन्धनीयम। यदि घञन्तं शब्दरूपं न च्छन्दोनाम, किन्तु विष्टारपङ्क्तिशब्दः, तत्र घञन्तरूपमवयत्वेन वत्र्तते, एवं तर्हि `छन्दोतत्कथमुन्नीयते? अस्य हि छन्दोनाम्नि गम्यमान इत्येषोऽर्थः,प्रत्ययान्तं छन्दोनाम भवतीति यावत्। एवञ्चार्थ एवं सति नोपपद्यत इत्याह-- `छन्दोनाम्नीत्यधिकणसप्तम्येषा`इति। एतेन च्छन्दोनाम्नि प्रत्ययान्तस्याधिकरणभूते प्रत्यययो भवतीत्ययमत्रार्थो वेदितव्यः,न च्छन्दोनाम्नि गम्यमान इत्येष इति दर्शयति॥
अक्षराणामियताविशिष्टो विन्यासविशेषोःउवृतम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति । ठ्बहुलं च्छन्दसिऽ इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह---नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः, ठ्च्छन्दोनाम्नि चऽ इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचितु ठ्वौऽ इति नानुवर्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः । ठ्कर्मण्यग्न्याख्यायाम्ऽ इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह---विष्टारपङ्क्तिशब्दोऽत्र च्छन्दोनामेति । अवयवत्वेन वर्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचितु तद्वर्तत इति तच्छब्दः पठ।ल्ते, तत्र नानुषङ्गः । कथं तर्हि च्छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह---च्छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं च्छन्दोनाम, अवयवाश्चावयविनि वर्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपतिरिति भावः ॥
सिद्धान्तकौमुदी
स्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
छन्दोनाम्नि च - छन्दो । शब्दविषयत्वात्पूर्वेणाऽप्राप्ते वचनम् । केचित्तुप्रस्तारपङ्क्ति॑रित्यादिप्रयोगानुरधेनात्र वाविति नानुवर्तयन्ति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.