॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|21
SK 3191
3|3|21
इङश्च   🔊
SK 3191
सूत्रच्छेद:
इङः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
इङो धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। अध्यायः। उपेत्यास्मादधीते उपाध्यायः। अपादाने स्त्रियाम् उपसङ्ख्यानं तदन्ताच् च वा ङीष्। उपाध्याया, उपाध्यायी। शृ̄ वायुवर्णनिवृतेषु। शारो वायुः। शारो वर्णः। शारो निवृतम्। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः।
`अचोऽपवादः` इति। `एरच्` 3|3|56 इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। `अध्यायः` इति। कर्मणि घञ्। `तदन्ताच्च वा ङीष्` इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम्-- `वोतो गुणवचनात्` 4|1|44 इत्यत्र वेति योगविभाघः कत्र्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा `पुंयोगादाख्यायाम्` 4|1|48 इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।`शृ वायुवर्णनिवृतेषु` इति। `शृ हिंसायाम्` (धातुपाठः-1488) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, `कृत्यल्युटो बहुलम्` 3|3|113 इति बहुलग्रहणं वाऽ‌ऽश्रित्य कत्र्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।`अकृतनीशारः` इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्॥
उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति । ठ्घञनुक्रमणमजपोर्विषयेऽ इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः---उपाध्यायी, उपाध्यायानी । ठ्शृवायुवर्णनिवृतेध्विति । शृऽ इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः---चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः । ठ्प्रदक्षिणप्रसव्यगामिनां शाराणाम्ऽ इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥
सिद्धान्तकौमुदी
घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् (वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥शॄ वायुवर्णनिवृतेषु (वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
इङश्च - उपेत्येति । गुरुसमीपमेत्येत्यर्थः । अपादान इति । पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः ।घञनुक्रमणमजपोर्विषये॑ इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम् । उपाध्यायेति । यां स्वयमद्यापयति तस्यामिदं रुपद्वयम् । पुंयोगे तु ङीषेव । आनुगागमश्च पाक्षिक इत्युक्तम् । करणे क्त इति । वृञ् वरण इत्यस्मादित्यर्थः । नीशार इति ।उपसर्गस्य घञी॑ति दीर्घः । ननुप्रदक्षिणप्रसव्यगामिनां शाराणा॑मिति कथं प्रयोगः ,वायुवर्णे॑ इत्यर्थपरिगणनादिति चेत् । अत्राहुः — अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इङश्च (996) (547 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.16) (4021 वार्तिकम्।।1 ।।) - इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप्- (भाष्यम्) इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं कर्तव्यं तदन्ताच्च वा ङीष् वक्तव्यः। उपेत्याधीयतेऽस्या उपाध्यायी उपाध्याया।। (4022 वार्तिकम् ।। 2 ।।) - शृवायुवर्णनिवृतेषु- (भाष्यम्) शृ इत्येतस्माद्वायुवर्णिनिवृतेषु घञ्ञ् वक्तव्यः। शारो वायुः। शारो वर्णः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः।। इङश्च।। 21 ।।