Page loading... Please wait.
3|3|2 - भूतेऽपि दृश्यन्ते
॥ तस्मै पाणिनये नमः ॥
3|3|2
SK 3170
भूतेऽपि दृश्यन्ते   🔊
सूत्रच्छेदः
भूते (सप्तम्येकवचनम्) , अपि (अव्ययम्) , दृश्यन्ते (तिङन्तपदम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्वत्र वर्तमानाधिकाराद् भूतार्थम् इदं वचनम्। भूते काले उणादयः प्रत्यया दृश्यन्ते। वृत्तम् इदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्।
`पूर्वत्र वत्र्तमानात्िति। अथ पूर्वत्र वत्र्तमानग्रहणं कस्मान्न निवर्त्तितम्, युक्तं हि तत् तत्र निवर्त्तियितुम्, तथा हि-- तस्मस्तत्र निवृत्ते सतीदं न कत्र्तव्यम्? नैतदस्ति;अवश्यमैतत् कत्र्तव्यम्,यस्मात् केचिद्भूत एवेष्यन्ते। यदिच पूर्वत्र वत्र्तमानग्रहणानुवृत्तिर्न स्यात्,भविष्यत्यप्युणादयो न स्युः। `भविष्यति गम्यादयः` 3|3|3 इत्येकं तु नियमार्थं विज्ञायेत-- भविष्यत्येव गम्यादयैति। तस्मात् पूर्वत्रानुवत्र्तयितव्यं वत्र्तमानग्रहणम्। `वत्र्म` इति। `आतो मनिम्` 3|2|74 इत्यनुवत्र्तमाने `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति मनिन्प्रत्ययः।`नेड् वशि कृति` 7|2|8 इतीट्प्रतिषेधः। `भस्म` इति। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100)। `दृशिग्रहणम्` इत्यादि। विशिष्टप्रयोगमनुसृत्य यत्र शिष्टाः प्रयुज्यते तत्र भूते प्रत्ययः कत्र्तव्यः,न तु सर्वत्रेति दृशिग्रहणेनायमर्थः प्रतिपादित इति दर्शयति॥
पूर्वत्र वर्तमानाधैकारादिति । तत्रैव वर्तमानग्रहणं न निवर्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु ठ्ताभ्यामन्यत्रोणादयःऽ इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः, ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः ॥
सिद्धान्तकौमुदी
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
भूतेऽपि दृश्यन्ते - भूतेऽपि दृश्यन्ते । नन्वेवं वर्तमानग्रहणं चउणादयो बहुल॑मित्यत्र नानुवर्त्त्यताम्, एतच्चोत्तरसूत्रं च त्यज्यताम् । अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः — बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु क्वचिदेवे॑ति विवेकप्रदर्शानयेदमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.