॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|171
SK 3312
3|3|171
कृत्याश्च   🔊
SK 3312
सूत्रच्छेद:
कृत्याः - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आवश्यकाऽधमर्ण्ययोः इति वर्तते। कृत्यसञ्जाकाश्च प्रत्यया आवश्यकाऽधमर्ण्ययोरुपाधिभूतयोः धातोर् भवन्ति। भवता खलु अवश्यं कटः कर्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः। आधमर्ण्ये भवताशतं दातव्यम्। सहस्रं देयम्। किमर्थम् इदम्, यावता सामाग्येन विहिता अस्मिन्नपि विषये भविस्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः, भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इह उदाहरणम् इति।
`किमर्थम्ित्यादि चोद्यम्। `विशेषविहितेन`इति परीहारः।`कत्र्तरि`इत्यादिना परीहारविघटनञ्च। `केचित्ित्यादिना परकीयमतेन परोहारसमर्थनम्। `भव्यगेयम्िति। `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वत्र्तन्ते` (शा।प।85) इति भव्यगेयादयः शब्दा अवयवभूतेषु कृत्येष्विह वत्र्तन्ते। `कर्त्तृवाचिनः`इति। भव्यगेयादिसूत्रेणैषां पक्षे कत्र्तरि निपातनात्। योगविभाग उत्तरार्थः॥
भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥
सिद्धान्तकौमुदी
आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!