॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|16
SK 3182
3|3|16
पदरुजविशस्पृशो घञ्   🔊
SK 3182
सूत्रच्छेद:
पद-रुज-विश-स्पृशः - पञ्चम्येकवचनम् , घञ् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भविष्यति इति निवृतम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यते ऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः। स्पृश उपताप इति वक्तव्यम्। स्पृशति इति स्पर्शः उपतापः। ततो ऽन्यत्र पचाद्यच् भवति। स्पर्शो देवदत्तः। स्वरे विशेषः।
पदेर्ण्वृल्तृचोरपवादो घञ् विधीयते, रुजिविशिभ्यामिगुपधलक्षणस्य कस्य, स्पृशेश्च पचाद्यचः। `पादः` इति। `अत उपधायाः` 7|2|116 इति वृद्धिः। यद्येवम्, पदमिति न सिद्ध्यति? न तु खलु न सिद्ध्यति, `अनुदात्तं पदमेकवर्जम् 6|1|152 इति निपातनात्।`स्पृश उपतापे इति वक्तव्यम्िति। उपतापः = रोगः, तत्र स्पृशेर्घञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `लृटः सद्वा` 3|3|14 इत्यतो वाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन स्पृशेरुपात एव कत्र्तरि भवति, नान्यत्रेति। `स्वरे विशेषः` इति। अचि हि सत्यन्तोदात्तत्वं भवति, घञि तु पदस्याद्युदात्तत्वं स्यात्। घञो ञकारो वृद्ध्यर्थः, आद्युदात्तार्थश्च। घकारः `चजोः कुघिण्ण्यतोः` 7|3|52 इति कुत्वार्थः॥
पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येततु ठ्खनो घ चऽ इत्यत्र साधयिष्यते । रोग इति । ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । स्पृश उपतापे इति । उपतापःउरोगः ॥
सिद्धान्तकौमुदी
भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
पदरुजविशस्पृशो घञ् - पदरुज । पद्यतेऽसाविति । करणस्य कर्तृविवक्षाऽत्र बोध्या । पद्यते गच्छति येनेति फलितोऽर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पदरुजविशस्पृशो घञ्ञ् (999) (542 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.11) (4011 वार्तिकम्।। 1 ।।) - स्पृश उपतापे- (भाष्यम्) स्पृश उपतापे इति वक्तव्यम्। इह मा भूत् ‐ -कम्बलस्पर्श इति पदरु।। 16 ।।