॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|140
SK 2797
3|3|140
भूते च   🔊
SK 2797
सूत्रच्छेद:
भूते - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते। पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। उताप्योः समर्थयोर् लिङ् 3|3|152 इत्यारभ्य लिङ्निमित्तेषु विधानम् एतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रो ऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टो ऽभविष्यत्, तदा अभिक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः।
`उताप्यरित्यारभ्य`इत्यादि। `उताप्योः समर्थययोः` 3|3|152 इत्येतत्प्रभृतिषु लिङ्निमित्तेषु ह्रेतल्लृङविधानम्। कुत एतदित्याह-- `प्राक्` इत्यादि। यस्मात् प्राक् `वोताप्योः` 3|3|141 इति वक्ष्यते, ततश्च पारिशेष्याद्भूते लिङो विधानं `वोताप्योः` 3|3|141 इत्यादिष्वेवावतिष्ठते। `न तु भुक्तवान्` इत्यादि। क्रियातिपर्तिंत दर्शयति॥
अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह---यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु ठ्यदायद्योरुपसंख्यानम्ऽ इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः---अन्येन पथा स गत इति ॥
सिद्धान्तकौमुदी
पूर्वसूत्रं संपूर्णमनुवर्तते ॥
भूते च - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।
भूते च - भूते च । लिङ्निमित्ते लृङ् स्याद्भूते भविष्यति च क्रियापत्तौ । अद्यतनाऽनद्यतनसाधारमं भूतसामान्यमिह ज्ञेयम् । अस्योदाहरणानि — -॒उताप्योः समर्थयोर्लिङ् इत्यारभ्यसमानकर्तृकेषु तुमु॑न्निति विहाय सप्तसूत्र्यां बोध्यानि, ततः प्राचीनेषुवोताप्यो॑रित्यनेन विकल्पोक्तेः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भूते च (1125) (579 लृङ्विधिसूत्रम्।। 3 । 3 । 2 आदृ 9) (5005 वार्तिकम्।। 1 ।।) - भूते लृङुताप्यादिषु- (भाष्यम्) भूते लृङ् उताप्यादिषु द्रष्टव्यः। उताध्यैष्यत। अप्यध्यैष्यत।। भूते।। 140 ।।