॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|135
SK 2793
3|3|135
नानद्यतनवत्‌ क्रियाप्रबन्धसामीप्ययोः   🔊
SK 2793
सूत्रच्छेद:
न - अव्ययम् , अनद्यतनवत् - अव्ययम् , क्रियाप्रबन्ध-सामीप्ययोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर् न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं पुत्रानध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपि येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायो ऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्या आगामिनी, एतस्यामुपाध्यायो ऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय।
`कालानां सामीप्यम्ित्येनन कालसम्ब्धि सामीप्यमिहाश्रीयत इति दर्शयति। कुतः पुनः सामान्योक्तेन कालसम्बन्धिन एव सामीप्यस्य ग्रहणं लभ्यते? वत्र्तमानसामीप्य इत्यत आरभ्य प्रायिकत्वादस्य प्रकरणस्य। एतदपि कुतः? वत्र्तमानादिशब्दानां कालशब्दत्वात्। अपि च लङलुटोः प्रतिषेधः, तौ च कालविहितौ। अतो यत्र हि तौ, तत्र तत्सम्बन्धेनैव कालसामीप्यमिहाश्रीयत इति विज्ञायते। तत्पुनः कीदृशमित्याह-- `तुल्यजातीयेन`इत्यादि। तुल्यजातीयग्रहणं भिन्नजातीयनिवृत्त्यर्थम्। कालमात्रेण व्यवधानेन गृह्रमाणे येयं पौर्णमास्यतिक्रान्ता तस्यामुपाध्यायोऽग्नीनाधितेत्येवमादावुदाहरणे सामीप्यं न स्यात्; अमावास्यया अन्याभिश्च तिथिभ्यव्र्यवधानात्। तस्मात् समानजातीयेनाव्यवधानमश्रीयते। `अदात्` इति। `गातिस्था` 2|4|77 इत्यादिना सिचो लुक्। `अध्यापिपत्` इति। `हेतुमति च` 3|1|26 इति णिच्। `क्रीङजीनां णौ` 6|1|47 इत्यात्त्वम्, `अर्त्तिह्यी` 7|3|36 इत्यादिना पुक्, लुङ, च्लेः `णि श्री` 3|1|48 इत्यादिना चङ, `अजादेर्द्वितीयस्य` 6|1|2 इति पीत्येतस्य द्विर्वचनम्, `आडजादीनाम्` 6|4|72 इत्याट्, `आटश्च` 6|1|87 इति वृद्धिः, णिचो लोपः।`येयं पौर्णमास्यतिक्रान्ता` इति। पौर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी, तामधिकृत्येदमाह। सा हि यद्यप्यमावास्यया अन्याभिश्च तिथिभिव्र्यवहिता, तथापि तुल्यजातीयेन पौर्णमास्याख्येन कालेनाव्यवहितत्वात् सामीप्यं नातिवत्र्तते। `अग्नीनाधित` इति। दधातेराङपूर्वस्य `स्थाघ्वोरिच्च` 1|2|17 इतीत्त्वम्, सिचश्च कित्वम्, `ह्यस्वादङ्गात्` 8|2|27 इति सिचो लोपः। `अदित`इति। ददाते रूपम्। पूर्ववत्। `यक्ष्यते`इति।यजेर्ललृट्, स्यः, तस्मिन् परस्तथा षष्वे कृते `षढोः कः सि` 8|2|41 इति कत्वम्। `आधित` इत्यादौ सर्वत्र `स्वरितञितः` 1|3|72 इत्यादिनाऽ‌ऽत्मनेपदम्। किमर्थं प्रतिषेधद्व्यमुच्यते, `नाद्यतनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत? क्रियाप्रबन्धसामीप्ययोह्र्रद्यतनप्रत्ययौ लुङलृटाविष्येते, नानद्यतनप्रत्ययौ लङलृटौ। तौ च लङलुटावेवमुच्यमाने सिध्यत एवेत्यत आह-- `द्वौ प्रतिषेधौ` इत्यादि। एवं मन्यते-- यदि `नाद्यनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत तदैतदेवं सूत्रं विधायकं स्यात्, ततश्च सङ्करः प्रसज्येत-- लुङोऽपि विषये लृट्, लृटश्च विषये लुङ। न ह्रत्रायं विशेष उपादीयते। भूते लुङ भविष्यति लृडिति प्रतिषेधविषय उच्यमाने नायं दोषः, ततो नानेन किञ्चिद्विधीयते, केवलमनद्यतनप्रत्ययानां प्रतिषेधः क्रियते, तेषु प्रतिषिद्धेषु स्वैरेव वाक्यैर्विधायकैर्लुङादय उत्सर्गाः स्वे स्वेकालेऽपवादविनिर्मुक्ते भवन्ति। अतो यथाप्राप्ताभ्यनुज्ञापनाय प्रतिषेधद्वयमुच्यते॥बाल-मनोरमानाऽनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः 617, 3.3.135 नाऽनद्यतनवत्। क्रियायाः प्रबन्धः = सातत्यम्। तदाह-- क्रियायाः सातत्ये इति। अनद्यतनबदित्यनेन अनद्यने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ। तदाह-- लङ्लुटौ नेति। अनद्यतने भूते लङ् न भवति, भविष्यत्यनद्यतने तु लुग्नेत्यर्थ-। क्रियासातत्ये लङ्निषेधमुदाहरति-- यावज्जीवमन्नमदादिति। लुङि `गातिस्थे` ति सिचो लुक्। सामीप्ये उदाहरिष्यन्नाह-- सामीप्यमिति। येयमिति। पोर्णमास्या उपरि कृष्णपक्षे कतपयाहोरात्रे व्यवधानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाऽभावात्। आधितेति। धाधातोर्लुङि `स्थाध्वोरिच्चे`ति धाधातोरित्त्वं, सिचः कित्त्वं च `ह्यस्वादङ्गा`दिति सिचो लोपः। सोमेनायष्टेति। `येयं पौर्णमास्यतिक्रान्ता तस्या`मित्यनुषज्यते। अथ क्रियासातत्ये लुटो निषेधमुदाहरति-- येयममावास्येति। सोमेन यक्ष्यते इति। `येयममावास्या आगामिनी तस्या`मित्यनुषज्यते। बाल-मनोरमाभविष्यति मर्यादावचनेऽवरस्मिन् 618, 3.3.135 भविष्यति मर्यादा। `अवरस्मि`न्निति च्छेदः। अनद्यतनवन्नेति। लुण्नेत्यर्थः। `अक्रियाप्रबन्धार्थ`मिति भाष्यम्। `असामीप्यार्थं चे`ति कैयटः। योऽयमिति। कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते। `अवर`मित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः। कालविभागे। पूर्वसूत्रमिति। `भविष्यति मर्यादावचनेऽवरस्मि`न्निति सूत्रमित्यर्थः। ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह-- अहोरात्रेति। तथा च आहोरात्रसंबन्धिनि प्रविभागे `भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः। ननु `भविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह-- योगविभाग उत्तरार्थ इति। इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर आगामीति। कालतो मर्यादायामुदाहरणम्। आग्रहायण्या इति। मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति। नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति। अत्र न लुट्, किंतु लृडेवेति भावः। पञ्चदशरात्रयुक्ता इति। पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः। `अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः। यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। `अहःसर्वैकदेशे`त्यच्समासान्तः। `सङ्ख्यापूर्वंरात्रं क्लीब`मिति तु `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये`ति वचनान्न भवति।
कालानां सामीप्यमिति । ठ्वर्तमानसामीप्येऽ इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति । ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । अध्यापिपदिति । इङे णिच्, ठ्क्रीङ्जीनां णौऽ इत्यात्वम्, ठर्तिह्रीऽ इत्यादिना पुक्, लुङ् चिङ् ठिजादेर्द्वितीयस्यऽ इति पिशब्दस्य द्विर्वचनम्, णिलोपः । येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्तते । आधितेति । दधातेराङ्पूर्वस्य ठ्स्थाघ्वोरिच्चऽ इतीत्वम्, ठ्ह्रस्वादङ्गात्ऽ इति सिचो लोपः । अयष्टेति । ठ्झलो झलिऽ इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे ठ्षढोः कः सिऽ इति कत्वम्, सर्वत्र ठ्स्वरितञितःऽ इत्यात्मनेपदम् । इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ ठद्तनवत् क्रियाप्रबन्धसामीप्ययोःऽ इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह---द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत---लुङे विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन---ठ्पूङ्यजोः शानन्ऽ इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप्---अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वतौ ठ्लङ्लुटौ विहितौ तयोः प्रतिषेधःऽ इत्युपलक्षणम् ॥
सिद्धान्तकौमुदी
क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - भविष्यति मर्यादा ।अवरस्मि॑न्निति च्छेदः । अनद्यतनवन्नेति । लुण्नेत्यर्थः ।अक्रियाप्रबन्धार्थ॑मिति भाष्यम् ।असामीप्यार्थं चे॑ति कैयटः । योऽयमिति । कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना । अत्र कौशाम्ब्या इति मर्यादा गम्यते ।अवर॑मित्यनेन अवरत्वं गम्यते । अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः । कालविभागे । पूर्वसूत्रमिति ।भविष्यति मर्यादावचनेऽवरस्मि॑न्निति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह — अहोरात्रेति । तथा च आहोरात्रसंबन्धिनि प्रविभागेभविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननुभविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह — योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः । युक्ता इति । नियमयुक्ता इत्यर्थः । अध्येष्यामहे इति । अत्र न लुट्, किंतु लृडेवेति भावः । पञ्चदशरात्रयुक्ता इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः । यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः ।अहःसर्वैकदेशे॑त्यच्समासान्तः ।सङ्ख्यापूर्वंरात्रं क्लीब॑मिति तुलिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये॑ति वचनान्न भवति ।
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - नानद्यतन । भूतानद्यतने लङ्विहितो, भविष्यत्यनद्यतने तु लुट्, तौ चानयोरर्थयोर्निषिध्येते । तदाह — लङ्लुटौ नेति । एवं च भूते लुङ्, भविष्यति तु लृडित्याशयेनोदाहरति — अन्नमदात्, दास्यतीत्यादि । अग्नीनिति । आहवनीयादीन् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः (1119) (574 लङ्लुटोर्निषेधविधिसूत्रम्।। 3 । 3 । 2 आ.4) (आक्षेपभाष्यम्) किमर्थमिमौ द्वौ प्रतिषेधावुच्येते। न अद्यतनवत् इत्येवोच्येत। (4095 समाधानवार्तिकम्।। 1 ।।) - नानद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः- (भाष्यम्) नानद्यतनवत् प्रतिषेधे लङ्लुटोः प्रतिषेधो द्रष्ठव्यः। (4096 हेतुवार्तिकम्।। 2 ।।) - अद्यतनवद्वचने हि विधानम्- (भाष्यम्) अद्यतनवद्वचने हि सति विधानमिदं विज्ञायेत।। तत्र को दोषः? (4097 दोषदर्शकवार्तिकम्।। 3 ।।) - तत्र लडि्वधिप्रसङ्गः- (भाष्यम्) तत्र लडि्वधिः प्रसज्येत।। (4098 दोषान्तरवार्तिकम्।। 4 ।।) - लुङ्लृटोश्चायाथाकालम्- (भाष्यम्) लुङ्लृटोश्चायथाकालं प्रयोगः प्रसज्येत। लुङोपि विषये लृट् स्यात्। लृटश्च विषये लुङ् यथा स्यात्। अद्य पुनरयं द्वौ प्रतिषेधावुक्त्वा तूष्णीमास्ते। यथाप्राप्तमेवाद्यतने भविष्यति।। नानद्यतन।। 135 ।।