Page loading... Please wait.
3|3|127 - कर्तृकर्मणोश्च भूकृञोः
॥ तस्मै पाणिनये नमः ॥
3|3|127
SK 3308
कर्तृकर्मणोश्च भूकृञोः   🔊
सूत्रच्छेदः
कर्तृ-कर्मणोः (सप्तमीद्विवचनम्) , च (अव्ययम्) , भू-कृञोः (षष्ठीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च उपपदे, चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यम्भवं भवता। दुराढ्यम्भवम्। ईषदाढ्यङ्करः। स्वाढ्यङ्करो देवदत्तो भवता। कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्। इह मा भूत्, स्वाढ्येन भूयते।
कर्त्तृकर्मणोरुपपदत्वं भवति, न तु प्रत्ययार्थम्। यदि च तयोः प्रत्ययार्थत्वं स्यादीषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, ततश्च खित्करणमनर्थकं स्यात्; अनव्ययस्य खित्कार्यविधानात्। ईषादादीनाञ्चाव्ययत्वात्; तस्मादतोऽपि खित्करणम्। उपपदे कर्त्तृकर्मणी, न तु प्रत्ययार्थावेतावित्यवसीयते। अत्र च कर्त्तृकर्मणी ईषदादयश्च न प्रत्येकं प्रत्ययस्य निमित्तम्, किं तर्हि? तत्समुदायः। चकारेण ह्रतर् सन्नियोगः क्रियते, तेन कर्त्तृकर्मणोरीषदादीनाञ्च युगपदुपपदत्वं भवति; नान्यथा। यद्येवम्, कथं द्वयोरुपपदयोर्युगपत् समासः? कः पुनराह-- युगपत् समास इति? पूर्वं हि परस्योपपदस्य समासं कृत्वा पश्चात् पूर्वस्य समासो भवति। किं पुनरत्र परमुपपदम्? कर्त्तृकर्मणी। कुत एतत्? खित्करणसामथ्र्यात्। खित्करणं हि मुमर्थम्, मुमागमश्चानव्ययस्य विधीयते। तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकं स्यात्। `ईषदाढम्भवं भवता` इति। अकृच्छ्रमाढएन भयते भवतेत्यर्थः। `ईषदाढङ्करो देवदत्तो भवता` इति। अकृच्छ्रमाढ्यः क्रियते देवदत्तो भवतेत्यर्थः।`कर्त्तृकर्मणोः`इत्यादि। च्व्यर्थोऽभूततद्भावः। तदर्थयोः कर्त्तृकर्मणोरुपपदयोः खल भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- प्रायग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, तेन यदा कर्त्तृकर्मणी च्व्यर्थे भवतस्तदैव प्रत्ययो भवति, नान्यदेति। `स्वाढएन भूयते` इति। अत्र च्व्यर्थस्याविवक्षितत्वात् प्रत्ययो न भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ॥ ।कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् (वार्तिकम्) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
कर्तृकर्मणोश्च भूकृञोः - कर्तृकर्मणोः । चकारः संनियोगार्थः । यदा कर्तृकर्मणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात् । न च कर्तृकर्मणोः प्रत्ययार्थत्वमेवास्तु न तूपपदत्वमिति वाच्यम्, ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयथ्र्यापत्तेः । मुमर्थं हि तत् । मुम् चानव्यस्य विधीयते । तस्मात्कर्तृकर्मणोरिति उपपदत्वमेव । तदेतदाह — ईषदादिषु चेति । कर्तृकर्मणी द्वे, भूकृञौ च द्वौ, तयोर्यथासङ्ख्यं प्राप्तम्, स्वीकृतं च काशिकाकृता, कन्यासकारहरदत्तादिभिश्च, प्राचापि तथैवोक्तं, तद्वयाख्यातृभिश्चानुमोदितं, तत्सर्वं नादर्तव्यम्,यथासङ्ख्यसूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह — यथासङ्ख्यं नेष्यत इति । ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति, भूकृञोरवयवहितत्वं क्रतृकर्मणोरेवेष्यते न त्वीषदादीनाम् । एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः — बहुलग्रहणानुवृत्त्या दुराढम्भव इति भाष्योदाहरणाच्चेष्टव्यवस्था सिध्यतीति । तदेतदभिप्रेत्याह — - कर्तृकर्मणि चेति । भवतेः कर्तर्युदाहरति — - अनाढएनाढएनेति । कर्मणि त्वनाढ आढओ भूयते इति विग्रहः । भाव्यते इति तदर्थः । एवमग्रेऽपि विग्रहद्वयमुन्नेयम् । अनाढएनाढएन स्वयमेव क्रियते, अनाढ आढ्यः क्रयत इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्तृकर्मणोश्च भूकृञ्ञोः (1112) (569 खल्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.38) (4077 वार्तिकम्।। 1 ।।) ।। खल् कर्तृकर्मणोश्च्व्यर्थयोः- (भाष्यम्) खल् कर्तृकर्मणोः च्व्यर्थयोरिति वक्तव्यम्। अनाढ्येन भवता इर्षदाढ्येन शक्यं भवितुम् इर्षदाढ्यंभवं भवता। दुराढ्यंभवम्। स्वाढ्यंभवम्।। (4078 वार्तिकम्।। 2 ।।) - कर्तृकर्मग्रहणं चोपपदसंज्ञार्थम्- (भाष्यम्) कर्तृकर्मग्रहणं चोपपदसंज्ञार्थे द्रष्टव्यम्। तद् द्वेष्यं विजानीयाद् अभिधेययोरिति। तदाचार्यः सुहृद् भूत्वान्वाचष्टे ‐ -कर्तृकर्मग्रहणं चोपपदसंज्ञार्थमिति।। कर्तृकंर्म।। 127 ।।