॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|12
SK 3181
3|3|12
अण् कर्मणि च   🔊
SK 3181
सूत्रच्छेद:
अण् - प्रथमैकवचनम् , कर्मणि - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भविष्यति  [3|3|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भविस्यति इत्येव। चकारः सन्नियोगार्थः। धातोः अण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यण् 3|2|1 इति सामान्येन विहितो वा ऽसरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सो ऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेन अपवादविसये ऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति।
`कर्मण्यण्` इत्यादि। `तुमुन्ण्वुलौ` 3|3|10 इत्यादिसूत्रे ज्ञापितमेतत्-- वासरूपविधिरिह नास्तीति। तेन यद्यपि विशेषणेणाण् विहितः, तथापि वासरूपविधेरभावात् क्रियार्थोपपद न ण्वुला बाधितः,तस्मात् पुनर्विधीयते। `सोपऽपवादत्वाण्णवुलं बाधते` इति। नाप्राप्ते ण्वुलीतरस्यारब्धत्वात्, विशेषविहितत्वाच्च। `कादीन्` इति। बाधत इति सम्बन्धः। आदिशब्देन टगादीनां ग्रहणम्। `तेनापवादविषयेऽपि भवति` इति। अपवादाः सामान्यविहितस्याणः कादयः, तद्विषयेऽपि भवति। `अण् कर्मणि च` 3|2|12 इत्यस्याऽनाकारान्तक्रियोपपदोऽवकाश--- काण्टलावो व्रजतीति, `आतोऽनुपसर्गे कः` 3|2|3 इत्यस्याकारान्तः क्रियोपपदोऽवकाशः --गोद इति; इह ह्रुभयं प्राप्नोति-- गोदायो व्रजतीति, परत्वादण् भवति। तथा `गपोष्टक्` 3|2|8 इत्यस्यावकाशः--सुरापः,शीधुपः,अणः स एव;इहोभयं प्राप्नोति--सुरापायो व्रजति, शीधुपायो व्रजतीति॥
चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात्---कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारातु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पति प्रति निमितत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम् ठ्तुमुन्ण्वुलौऽ इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव---एधानाहारको व्रजतीति । तथा च ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते---इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृतेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ॥
सिद्धान्तकौमुदी
कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अण् कर्मणि च - ण्वुलोऽपवाद इति ।अव्ययकृतो भावे॑ इति भावे विहितत्वात्तुमुनः प्राप्तिरेव नास्तीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अण् कर्मणि च (977) (539 अण्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.7) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते, न अविशेषेण कर्मण्यण् इत्यण्विहितः। स क्रियायामुपपदे क्रियार्थायाम् अन्यत्र च भविष्यति। (4002 समाधानवार्तिकम्।। 2 ।।) - अणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थम्- (भाष्यम्) अणः पुनर्वचनं क्रियते अपवादविषयेऽनिवृत्तिर्यथा स्यात्। गोदायो व्रजति कम्बलदायो व्रजतीति।। (आक्षेपभाष्यम्) किमुच्यते ‐ -अपवादविषये अनिवृत्त्यर्थमिति, न पुनरुत्सर्गविषये प्रतिपदविध्यर्थे स्यात्।। इदानीमेव ह्युक्तम् ‐ -क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। अण् चापि तृजादिः।। (समाधानभाष्यम्) एवं तर्ह्युभयमनेन क्रियते। अपवादविषये चानिवृत्तिः। उत्सर्गविषये च प्रतिपदविधिः।। कथं पुनरेनेन यत्नेनोभयं लभ्यम्? लभ्यमित्याह। कथम्? कर्मग्रहणसार्मथ्यात्।। कथं पुनरन्तरेण कर्मग्रहणं कर्मण्यण् लभ्यः? (समाधानभाष्यम्) वचनग्रहणमपि प्रकृतमनुवर्तते। अस्ति प्रयोजनमेतत्। किं तर्हीति। (4003 वार्तिकम्।। 1 ।।) - अपर्यायेणेति तु - (भाष्यम्) अपर्यायेणेति तु वक्तव्यम्। कदाचिद्धि कर्मणि स्यात् कदाचित् क्रियायामुपपदे क्रियार्थायामिति।। (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। चेन संनियोगः करिष्यते ‐ -अण् कर्मणि च।। किं च? अन्यत्उठक्रियायामुपपदे क्रियार्थायामिति।। (दूषणभाष्यम्) एवमपि प्रत्येकमुपपदसंज्ञा न प्राप्नोति।। (समाधानभाष्यम्) चेनैव संनियोगः करिष्यते। प्रत्येकं च वाक्यपरिसमाप्तिर्दृष्टेति प्रत्येकमुपपदसंज्ञा भविष्यति।। अण् कर्मणि 12 ।।