Page loading... Please wait.
3|3|1 - उणादयो बहुलम्
॥ तस्मै पाणिनये नमः ॥
3|3|1
SK 3169
उणादयो बहुलम्   🔊
सूत्रच्छेदः
उणादयः (प्रथमाबहुवचनम्) , बहुलम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वर्तमान इत्येव, संज्ञायाम् इति च। उणादयः प्रत्ययाः वर्तमाने ऽर्थे संज्ञायां विषये बहुलं भवन्ति। यतो विहितास् ततो ऽन्यत्र अपि भवन्ति। केचिदविहिता एव प्रयोगत उन्नीयन्ते। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः। बाहुलकं प्रकृतेस् तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम्। कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु। 1। नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्। यन् न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्रम्। 2। संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद् विद्यादनुबन्धम् एतच् छास्त्रम् उणादिषु। 3।
Text Unavailable. Please use feedback link below to provide the text if you have.
पदमञ्जरी वर्तमाने इत्येवेति । ठ्वर्तमाने लट्ऽ इत्यतो वर्तमानग्रहणानुवृतेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति । ठ्पुवः संज्ञायाम्ऽ इत्यतः ॥ ठुणादयःऽ इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह---बाहुलकमिति । ठ्ला आदानेऽ, बहूनर्थान् लाति---बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमितम् । बहवः पुनरर्थाः---क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा---हृषेरुलजुक्तः शकेरपि भवति---शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्वविहिता अपि भवन्ति, यथा---अर्तेः फिडफिड्डौ भवतः---ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति । ठ्षणु दानेऽ, ठ्ञमन्ताड्डःऽ, ठ्धात्वादेः पः सऽ इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत्---यावत्यः प्रकृतयः पञ्चपाद्यामुपाताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह---नैगमरूढिभवं हि सुसाध्विति । निगमःउच्छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात इति ठ्बह्वचोऽन्तोदाताट्ठञ्ऽ इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिःउप्रसिद्धिः, तत्र भवा रूढिभवाःउसंज्ञाशब्दाः, तेषां साधुत्वमनुपातानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः । अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्तव्यमेवेत्यभिप्रायेणाह---नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थःउप्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते । ठ्हृषेरुलच्ऽ इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा----ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ । स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह---संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्याइ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ॥
सिद्धान्तकौमुदी
॥ अथ उत्तरकृदन्तप्रकरणम्‌ ॥

एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उणादयो बहुलम् (966) (534 उणादीनामपि त्वीकरसूत्रम्।। 3 । 3 । 1 आ.1) (आक्षेपभाष्यम्) बहुलवचनं किमर्थम्? (3086 वार्तिकम्।। 1 ।।) - बाहुलकं प्रकृतेस्तनुदृष्टेः- (भाष्यम्) तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यो दृश्यन्ते।। (3087 वार्तिकम्।। 2 ।।) - प्रायसमुच्चयनादपि तेषाम्- (भाष्यम्) प्रायेण खल्वपि ते समुच्चिता न सर्वे समुच्चिताः। (3088 वार्तिकम्।। 3 ।।) - कार्यसशेषविधेश्च तदुक्तम्- (भाष्यम्) कार्याणि खल्वपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि। (आक्षेपभाष्यम्) किं पुनः कारणं तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यः? किं च कारणं प्रायेण समुच्चिता न सर्वे समुच्चिताः? किं च कारणं कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि? (3089 समाधानवार्तिकम्।। 4 ।।) - नैगमरूढिभवं हि सुसाधु- (भाष्यम्) नैगमाश्च रूढिभावाश्चौणादिकाः सुसाधवः कथं स्युः। (3090 वार्तिकम्।। 5 ।।) - नाम च धातुजमाह निरुक्ते - (भाष्यम्) नाम खल्वपि धातुजमेवमाहुर्नैरुक्ताः।। (3091 वार्तिकम्।। 6 ।।) - व्याकरणे शकटस्य च तोकम्- (भाष्यम्) वैयाकरणानां च शाकटायन आह धातुजं नामेति।। (आक्षेपभाष्यम्) अथ यस्य विशेषपदार्थो न समुत्थितः कथं तत्र भवितव्यम्। (3092 समाधानवार्तिकम्।। 7 ।।) - यन्न विशेषपदार्थसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम्- (भाष्यम्) प्रकृतिं दृष्ट्वा प्रत्यय ऊहितव्यः। प्रत्ययं च दृष्ट्वा प्रकृतिरूहितव्या।। संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु।। उणादयो।। 1 ।।